Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
१०८
___ ज्ञानबिन्दुप्रकरणस्य [पृ० १९. पं० २उपओगो अओ विसेससामन्नत्थेसु उवजुज्जइ जाणइ पासइत्ति भणियं न दोसो इति" - नन्दी० म० पृ. १०९ ।
पृ० १९. पं० २. 'सर्वविषयम्' - आव० नि० ७६ । विशेषा० गा० ८२३-८२८,१३४१-४५ । __ पृ० १९. पं० ५. 'प्रतीत्यसमुत्पाद' -- "तत्र कतमः प्रतीत्यसमुत्पादो नाम । यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम् , विज्ञानप्रत्ययं नामरूपम् , नामरूपप्रत्ययं षडायतनम् , षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम् , उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्यादयः ।""तत्राविद्या कतमा- एतेषामेव षण्णां धातूनाम् यैकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा मनुज" संज्ञा मानवसंज्ञा अहङ्कारममकारसंज्ञा एवमादिविविधमज्ञानमियमुच्यते अविद्या । एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्त्तन्ते, तत्र ये रागद्वेषमोहा विषयेषु अमी अविद्याप्रत्यया संस्कारा इत्युच्यन्ते । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् , चत्वारि महाभूतानि च उपादानानि रूपम् ऐकध्यरूपम् , विज्ञानसंभूताश्चत्वारोऽरूपिणः स्कन्धा नाम, तन्नामरूपम् । नामरूपसनिश्रितानि इन्द्रियाणि षडायतनम् । त्रयाणां धर्माणां सन्निपातः स्पर्शः । स्पर्शानुभवो 15 वेदना । वेदनाध्यवसानं तृष्णा । तृष्णावैपुल्यमुपादानम् । उपादाननिर्जातं पुनर्भवजनकं कर्म
भवः । भवहेतुकः स्कन्धप्रादुर्भावो जातिः । जात्यभिनिर्वृत्तानां स्कन्धानां परिपाको जरा । स्कन्धविनाशो मरणमिति ।" बोधिच. पं० पृ.३८६ । शिक्षा० पृ०२२२ । मूलमध्य० पृ० ५९४ । मध्यान्त० पृ० ४२ । अभिधर्मकोष ३.२०-२४ ।
पृ० १९. पं० १६. 'प्रमाणं च तत्र' - "यदिदमतीतानागतप्रत्युत्पन्न प्रत्येकसमुच्चया20 तीन्द्रियग्रहणमल्पं बहिति सर्वज्ञबीजम् , एतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः। अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवदिति, यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष इति” । योगभाष्य० १.२५ । तत्त्ववै० १.२५ । तत्त्वसं० पं० का० ३१६० । - पृ० १९: पं० २०. 'शास्त्रभावना -
"मनःकरणकं ज्ञानं भावनाभ्याससम्भवम् ।
भवति ध्यायतां धर्म कान्तादाविव कामिनाम् ॥ ___मनो हि सर्वविषयम्, न तस्याऽविषयः कश्चिदस्ति, अभ्यासवशाच्चातीन्द्रियेष्वध्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते” इत्यादि । न्यायम० प्रमाण० पृ. ९७ । न्यायवा० पृ० २५ । न्यायवा० ता० पृ० ७० । नैष्कर्म्यसिद्धि पृ० ३८। . _ पृ० १९. पं० २०. 'सामर्थ्ययोग -
__"शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः।
__ शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः॥" योगदृष्टि० का० ५। पृ० १९. पं० २१. 'प्रातिभनामधेये' - "आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगाद् धर्मविशेषाञ्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते । तत् तु प्रस्तारण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244