Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 207
________________ १०० ज्ञानबिन्दुप्रकरणस्य [पृ० ९. पं० १९मुक्त्वा पुस्तकपत्रकादिन्यस्ताक्षरद्रव्यश्रुतविषयां शब्दार्थपर्यालोचनात्मिकां शेषोपलब्धिम् , तस्याः श्रुतज्ञानरूपत्वात् । यच्च द्रव्यश्रुतव्यतिरेकेण अन्योऽपि शेषेन्द्रियेषु अक्षरलाभः शब्दार्थपोलोचनात्मकः सोऽपि श्रुतम् न तु केवलोऽक्षरलाभः । केवलो हि अक्षरलाभ: मतावपि ईहादिरूपायां भवति न च सा श्रुतज्ञानम् । अत्राह - ननु यदि शेषेन्द्रियेष्वक्षर5 लाभः श्रुतम् तर्हि यदवधारणमुक्तम् - श्रोत्रेन्द्रियेण उपलब्धिरेव श्रुतमिति तद्विघटते शेषेन्द्रियोपलब्धेरपि संप्रति श्रुतत्वेन प्रतिपन्नत्वात् ; नैष दोषः, यतः शेषेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थपर्यालोचनात्मकः, शब्दार्थपर्यालोचनानुसारी च अक्षरलाभः श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिदोषः।" नन्दी० म० पृ० १४२ । विशेषा० टी० गा० १२३ । पृ० ९. पं० १९. 'अक्षरलाभश्च य' - “सो वि हु सुयक्खराणं जो लाभो तं सुयं मई सेसा । जइ वा अक्खरच्चिय सा सव्वा न प्पवत्तेजा ॥ १२६ ॥ सोपि च शेषेन्द्रियाक्षरलाभः स एव श्रुतम् । यः किमित्याह - यः श्रुताक्षराणां लाभः, न सर्वः,- यः संकेतविषयशब्दानुसारी, सर्वज्ञवचनकारणो वा विशिष्टः श्रुताक्षरलाभः, स श्रुतम्, न त्वश्रुतानुसारी-ईहापायादिषु परिस्फुरदक्षरलाभमात्रमित्यर्थः । यदि पुनरक्षर1 लाभस्य सर्वस्यापि श्रुतेन क्रोडीकरणादनक्षरैव मतिरभ्युपगम्यते, तदा सा यथाऽवग्रहेहावाय धारणारूपा सिद्धान्ते प्रोक्ता, तथा सर्वापि न प्रवर्तेत, सर्वापि मतित्वं नानुभवेदित्यर्थः, किन्तु अनक्षरत्वात् अवग्रहमात्रमेव मतिः स्याद् न त्वीहादयः, तेषामक्षरलाभात्मकत्वात् । तस्माच्छ्रुतानुसार्येवाक्षरलाभः श्रुतम् , शेषं तु मतिज्ञानम् ॥” - विशेषा० टी० । पृ० ९. पं० २२. 'नन्वेवं शेषेन्द्रि' - "अथ परः पूर्वापरविरोधमुद्भावयन्नाह - जइ सुयमक्खरलाभो न नाम सोओवलद्धिरेव सुयं । सोओवलद्धिरेवक्खराइं सुइ संभवाउ ति ॥ १२५ ॥ - ननु याक्तन्यायेन शेषेन्द्रियाक्षरलाभोपि श्रुतम् , तर्हि, 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्' इति यदवधारणं कृतं तदसंगतम् , शेषेन्द्रियाक्षरलाभस्यापि श्रुतत्वात्" इत्यादि- विशेषा० टी०। पृ० ९. पं० २४. 'श्रोत्रेन्द्रियोप- विशेषा० टी० गा० १२७ । 25 पृ० ९. पं० २५. 'द्रव्यश्रुतपदेन' -विशेषा० गा० ४६७,४६८ । __ पृ० ९. पं० २७. 'त्रिविधाक्षरश्रुत' - “से किं तं अक्खरसुअं ? अक्खरसुअं तिविहं पन्नत्तं, तं जहा-सन्नक्खरं वंजणक्खरं लद्धिअक्खरं ।"- नन्दी० सू० ३९ । विशेषा• गा. ४६४-४६६ । पृ० १०. पं० ६. 'नानवगृहीत'30 "ईहिजइ नागहियं नाइ नाणीहियं न याऽनायं ।। धारिजइ जं वत्थु तेण कमोऽवग्गहाई उ॥" इत्यादि - विशेषा० गा० २९६-२९९ । पृ० १०. पं० १४. 'तत्र व्यञ्जनेन' - विशेषा. गा० १९४ । जैनतर्कभाषा० पृ० ३५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244