Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
९९
पृ० ९. पं० १८.]
टिप्पणानि । तद्धर्मावच्छिन्नविषयक एव शाब्दबोधो जायते इति न्यायनयः, यथा-घटत्वावच्छिन्नो घटपदशक्यः इति ज्ञानजन्यघटत्वावच्छिन्नोपस्थित्या जायमाने शाब्दबोधे घटत्वावच्छिन्नस्यैव विषयता तथापि क्वचित् बाधप्रतिसंधाने बाधितेतरत्वेन वृत्त्यनवच्छेदकरूपेणापि तस्य शाब्दबोधविषयता यथा घटेन जलमानय इत्यत्र जलानयने सच्छिद्रघटकरणकत्वं बाधितमिति प्रतिसंधाने वृत्त्यनवच्छेदकसच्छिद्रेतरत्वरूपेणैव घटस्य शाब्दबोधविषयता : भवति, तत्र हि सच्छिद्रेतरघटकरणकं जलानयनमिति शाब्दबोधात् ।।
एवं मा हिंस्यात् सर्वा भूतानि इत्यत्र हिंसात्वसामान्यावच्छेदेन अनिष्टसाधनत्वबोधजनकादपि विधिवाक्यात् अग्निषोमीयं पशुमालभेत इत्यादिविशेषहिंसाविषयकेष्टसाधनत्वबोधकापवादसहकृतात् तत्तदपवादेतरहिंसामात्र एव अनिष्टसाधनत्वविषयकः शाब्दबोधस्संपद्यते इति सापवादोत्सर्गविधिवाक्यस्थले एकेनैव शाब्दबोधेन कार्यसिद्धौ न औत्सर्गिकाप- 10 वादिकवाक्यजन्यानां विभिन्नानां शाब्दबोधानां कल्पना समुचितेति मीमांसकादिसंमतशाब्दबोधप्रक्रियानुगामिनः। पृ० ८. पं० २७. 'षट्स्थानपतितत्व'
"जं चोदसपुव्वधरा छट्ठाणगया परोप्परं होति ।
तेण उ अणन्तभागो पण्णवणिजाण जं सुत्तं ॥ १४२॥ "यद् यस्मात् कारणात् चतुर्दशपूर्वधराः षट्स्थानपतिताः परस्परं भवन्ति, हीनाधिक्येनेति शेषः । तथा हि-सकलाभिलाप्यवस्तुवेदितया य उत्कृष्टश्चतुर्दशपूर्वधरः, ततोऽन्यो हीनहीनतरादिः आगमे इत्थं प्रतिपादितः - तद्यथा- 'अणंतभागहीणे वा, असंखेजभागहीणे वा, संखेजभागहीणे वा, संखेजगुणहीणे वा, असंखेजगुणहीणे वा, अणंतगुणहीणे वा' । यस्तु सर्वस्तोकाभिलाप्यवस्तुज्ञापकतया सर्वजघन्यः ततोऽन्य उत्कृष्ट उत्कृष्टतरादिरप्येवं 20 प्रोक्तः । तद्यथा- 'अणंतभागब्भहिए वा, असंखेजभागब्भहिए वा, संखेजभागब्भहिए वा, संखेजगुणब्भहिए वा, असंखेजगुणब्भहिए वा, अणंतगुणब्भहिए वा' । तदेवं यतः परस्परं षट्स्थानपतिताश्चतुर्दशपूर्वविदः, तस्मात् कारणात् यत् सूत्रं चतुर्दशपूर्वलक्षणं तत् प्रज्ञापनीयानां भावानामनन्तभाग एवेति । यदि पुनर्यावन्तः प्रज्ञापनीया भावास्तावन्तः सर्वेऽपि सूत्रे निबद्धा भवेयुः, तदा तद्वेदिनां तुल्यतैव स्यात्, न षट्स्थानपतितत्वमिति 25 भावः ॥”-विशेषा० टी०।। __ पृ० ९. पं० ३. 'शब्दसंस्पृष्टार्थ' - "शृणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थं परिच्छिनत्त्यात्मा येन परिणामविशेषेण स परिणामविशेषः श्रुतम् ।" नन्दी० म० पृ० १४०।
पृ० ९. पं० ४. 'नन्दिवृत्त्यादौ – नन्दी० म० पृ० ६५ ।
पृ० ९. पं० ८. 'पूर्वगतगाथायाम्' – “इतिपूर्वगतगाथासंक्षेपार्थः” – विशेषा० टी० गा० ११७ । नन्दी० म० पृ० १४२ ।
पृ० ९. पं० १८. 'अपवादमाह' - "तदेवं सर्वस्याशेषेन्द्रियोपलब्धेः उत्सर्गेण मतिज्ञानत्वे प्राप्ते सति अपवादमाह- मोत्तूणं दव्वसुयं मुक्त्वा द्रव्यश्रुतं । किमुक्तं भवति
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f413430a39f07a590d3d99bd2bceee44b438ad1052b2bd3bae1b2c46d046cf3b.jpg)
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244