Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 202
________________ पृ०.७. पं० २१.] टिप्पणानि । ___ यथा यथा 'से' तस्य जीवस्याल्पतरो योगस्तथा से तस्य अल्पतरो बंधो भवति, यो वा निरुद्धयोगी शैलेश्यवस्थायां सर्वथा मनोवाक्कायव्यापारविरहितः तस्य कर्मबन्धो न भवति । दृष्टान्तमाह - अच्छिद्रपोतस्येवाम्बुनाथे, यथा किल निश्छिद्रप्रवहणं सलिलसंचयसंपूर्णेपि जलधौ वर्तमानं स्वल्पमपि जलं नाश्रवति, एवं निरुद्धयोग्यपि जन्तुः कर्मवर्गणापुद्गलैरञ्जनचूर्णपूर्णसमुद्कवनिरन्तरं निचितेपि लोके वर्तमानः स्वल्पीयोपि कर्म नोपादत्तेऽतः कर्मबन्धस्य योगान्वयव्यतिरेकानुविधायितया तत्परिजिहीर्षणा वरच्छेदनादिव्यापारो न विधेयः । इत्थं परेण स्वपक्षे स्थापिते सति सूरिराह - आरंभमिट्ठो जइ आसवाय गुत्ती य सेआय तहा नु साहू । मा फंद वारेहि व छिजमाणं पतिण्णहाणी व अतोण्णहा ते ॥ आरंभमिट्ठोत्ति मकारोऽलाक्षणिकः, हे नोदक यद्यारंभस्तवाश्रवाय कर्मोपादानाय इष्टो- 10 ऽभिप्रेतः, गुप्तिश्च तत्परिहाररूपा श्रेयसे- कर्मानुपादानाय अभिप्रेता तथा च सति हे साधो मा स्पंद, मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति ? । यदि वस्त्रच्छेदनं आरंभतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते, ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनात्मिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि ततः ते प्रतिज्ञाहानिः । स्ववचनविरोध- 15 लक्षणं दूषणमापद्यत इत्यर्थः । अथ ब्रवीथा योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वान्निर्दोष इति । अत्रोच्यते - अदोसवं ते जइ एस सद्दो अण्णो वि कम्हा ण भवे अदोसो। अहिच्छया तुज्झ सदोस एक्को एवं सती कस्स भवे न सिद्धी ॥ यद्येष त्वदीयः शब्दोऽदोषवान ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो 20 न भवेत् ? । तस्यापि प्रमाणातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात् । अथेच्छया स्वाभिप्रायेण तवैको वस्त्रच्छेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत् । सर्वस्यापि वागाडम्बरमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः । ततश्चास्माभिरपि एवं वक्तुं शक्यम् - योयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः, शब्दत्वात् , भवत्परिकल्पितनिर्दोषशब्दवदिति । किं च तं छिंदओ होज सई तु दोसो खोभाइ तं चेव जओ करेइ । जं पेहतो होंति दिणे दिणे तु संपाउणंते य णिबुज्झ ते वि ॥ यतस्तदेव वस्त्रं छिद्यमानं पुद्गलानां क्षोमादि करोति अतस्तद्वस्त्रं छिन्दतः सकृदेकवारं दोषो भवेत् , अच्छिद्यमाने तु वस्र प्रमाणातिरिक्तं तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः अप्रत्युपेक्षणा दोषा दिने दिने भवन्ति, ये च तद्वत्रं संप्रावृण्वतो विभूषादयो बहवो दोषा- 10 स्तानपि निबुध्यस्व अक्षिणी निमील्य सम्यग् निरूपय इति भावः । आह - यदि वस्त्रच्छेदने , युष्मन्मतेनापि सकृद्दोषः संभवति ततः परिह्रियतामसौ गृहस्थैः स्वयोगेनैव यद्भिन्नं वखं तदेव गृह्यताम् । उच्यते घेतव्वगं भिन्नमहिच्छियं ते जा मग्गते हाणि सुतादि ताव । अप्पेस दोसो गुणभूतिजुत्तो पमाणमेवं तु जतो करिति ॥ 25 |. .. . 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244