________________
पृ०.७. पं० २१.]
टिप्पणानि । ___ यथा यथा 'से' तस्य जीवस्याल्पतरो योगस्तथा से तस्य अल्पतरो बंधो भवति, यो वा निरुद्धयोगी शैलेश्यवस्थायां सर्वथा मनोवाक्कायव्यापारविरहितः तस्य कर्मबन्धो न भवति । दृष्टान्तमाह - अच्छिद्रपोतस्येवाम्बुनाथे, यथा किल निश्छिद्रप्रवहणं सलिलसंचयसंपूर्णेपि जलधौ वर्तमानं स्वल्पमपि जलं नाश्रवति, एवं निरुद्धयोग्यपि जन्तुः कर्मवर्गणापुद्गलैरञ्जनचूर्णपूर्णसमुद्कवनिरन्तरं निचितेपि लोके वर्तमानः स्वल्पीयोपि कर्म नोपादत्तेऽतः कर्मबन्धस्य योगान्वयव्यतिरेकानुविधायितया तत्परिजिहीर्षणा वरच्छेदनादिव्यापारो न विधेयः । इत्थं परेण स्वपक्षे स्थापिते सति सूरिराह -
आरंभमिट्ठो जइ आसवाय गुत्ती य सेआय तहा नु साहू ।
मा फंद वारेहि व छिजमाणं पतिण्णहाणी व अतोण्णहा ते ॥ आरंभमिट्ठोत्ति मकारोऽलाक्षणिकः, हे नोदक यद्यारंभस्तवाश्रवाय कर्मोपादानाय इष्टो- 10 ऽभिप्रेतः, गुप्तिश्च तत्परिहाररूपा श्रेयसे- कर्मानुपादानाय अभिप्रेता तथा च सति हे साधो मा स्पंद, मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति ? । यदि वस्त्रच्छेदनं आरंभतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते, ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनात्मिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि ततः ते प्रतिज्ञाहानिः । स्ववचनविरोध- 15 लक्षणं दूषणमापद्यत इत्यर्थः । अथ ब्रवीथा योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वान्निर्दोष इति । अत्रोच्यते -
अदोसवं ते जइ एस सद्दो अण्णो वि कम्हा ण भवे अदोसो।
अहिच्छया तुज्झ सदोस एक्को एवं सती कस्स भवे न सिद्धी ॥ यद्येष त्वदीयः शब्दोऽदोषवान ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो 20 न भवेत् ? । तस्यापि प्रमाणातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात् । अथेच्छया स्वाभिप्रायेण तवैको वस्त्रच्छेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत् । सर्वस्यापि वागाडम्बरमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः । ततश्चास्माभिरपि एवं वक्तुं शक्यम् - योयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः, शब्दत्वात् , भवत्परिकल्पितनिर्दोषशब्दवदिति । किं च
तं छिंदओ होज सई तु दोसो खोभाइ तं चेव जओ करेइ ।
जं पेहतो होंति दिणे दिणे तु संपाउणंते य णिबुज्झ ते वि ॥ यतस्तदेव वस्त्रं छिद्यमानं पुद्गलानां क्षोमादि करोति अतस्तद्वस्त्रं छिन्दतः सकृदेकवारं दोषो भवेत् , अच्छिद्यमाने तु वस्र प्रमाणातिरिक्तं तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः अप्रत्युपेक्षणा दोषा दिने दिने भवन्ति, ये च तद्वत्रं संप्रावृण्वतो विभूषादयो बहवो दोषा- 10 स्तानपि निबुध्यस्व अक्षिणी निमील्य सम्यग् निरूपय इति भावः । आह - यदि वस्त्रच्छेदने , युष्मन्मतेनापि सकृद्दोषः संभवति ततः परिह्रियतामसौ गृहस्थैः स्वयोगेनैव यद्भिन्नं वखं तदेव गृह्यताम् । उच्यते
घेतव्वगं भिन्नमहिच्छियं ते जा मग्गते हाणि सुतादि ताव । अप्पेस दोसो गुणभूतिजुत्तो पमाणमेवं तु जतो करिति ॥
25
|.
..
.
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org