SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ज्ञानबिन्दुप्रकरणस्य [पृ० ७. पं० २१--- "नन्विदं स्वमनीषिकामात्रविजूंभितं केन प्रमाणीक्रियतामिति आशङ्कयाह - भणियं च कप्पभासे वत्थच्छेयाहिगारमुद्दिस्स । एयं सुविसेसेउं पडिवजेअव्वमिय सम्मं ॥ ११६ ॥ भणितं चैतदनुपदोक्तम् , कल्पभाष्ये वस्त्रच्छेदनविधानसमर्थनं हृदि निधाय सुविशेष्य सपूर्वोत्तरपक्षं वितत्य, इति हेतौ, सम्यक्प्रतिपत्तव्यमदः, कल्पभाष्यामिप्रायश्चायम् -" उपदेशरहस्य गा० ११६ । "सद्दो तहिं मुच्छति छेदणा वा धावंति ते दो वि जाव लोगो । वत्थस्स देहस्स य जो विकंपो ततो वि वादादि भरिति लोगं ॥ भो! आचार्य ! तत्र वस्त्रे छिद्यमाने शब्दः संमूर्च्छति छेदनका वा सूक्ष्मपक्ष्मावयवा 10 उड्डीयन्ते । एते च द्वयेपि ततो निर्गता लोकान्तं यावत् प्राप्नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकंपश्चलनं ततोपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति । अहिच्छसि जंति ण ते उ दूरं संखोभिया तेहऽवरे वयंति । उर्दू अहे यावि चउद्दिसि पि पूरिति लोगं तु खणेण सव्वं ॥ अथाचार्य त्वं इच्छसि मन्यसे, ते च वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गलाः, न 15 दूरं लोकान्तं यान्ति तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे ब्रजन्ति । एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्ध्वमधस्तिर्यक्चतसृष्वपि दिक्षु सर्वमपि लोकं आपूरयन्ति । यत एवमतः विनाय आरंभमिणं सदोसं तम्हा जहालद्धमहिहिहिजा । वुत्तं सएओ खलु जाव देही ण होइ सो अंतकरी तु ताव ॥ 20 इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारंभं सदोषं सूक्ष्मजीवविराधनया सावा विज्ञाय, तस्मात् कारणात् यथालब्धं वस्त्रं अधितिष्ठेत् न छेदनादि कुर्यात्, यत उक्तं भणितम् , व्याख्याप्रज्ञप्तौ-यावदयं देही जीवः, सैजः सकम्पः चेष्टावानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति । तथा च तदालापक:- "जाव णं एस जीवे सया समिअं एअइ, वेअइ, चलइ, फंदइ, घट्टइ, खुब्भइ, उदीरइ, तं तं भावं परिणमइ ताव णं तस्स 25 जीवस्स अंते अंतकिरिया ण भवह।" . अथेत्थं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेयेति । नैवम् , यतः जा यावि चिट्ठा इरियाइआओ संपस्सहेताहिं विणा ण देहो । संचिट्ठए नेवमच्छिजमाणे वत्थंमि संजायइ देहणासो ॥ याश्चापि चेष्टा ईर्यादिकाः संपश्यत तोरणमीर्या भिक्षासंज्ञाभूम्यादौ गमनं, आदि" शब्दाद् भोजनशयनादयो गृह्यन्ते, एताभिर्विना देहः पौद्गलिकत्वात् न संतिष्ठते न निर्वहति, देहमन्तरेण च संयमस्यापि व्यवच्छेदः प्राप्नोति, वस्त्रे पुनरच्छिद्यमाने नैवं देहनाशः संजायते अतो न तच्छेदनीयम् । किञ्च, जहा जहा अप्पतरो से जोगो तहा तहा अप्पतरो से बंधो। निरुद्धजोगिस्स व से ण होइ अच्छिद्दपोतस्स व अंबुणाहे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy