________________
९३
पृ. ७. पं० २१.]
टिप्पणानि । __ यथेह वीतरागद्वेषमोहस्य भगवतः इष्टाः शब्दरूपादयो भावविशुद्धितो न कदाचिद् रतिफला रतिजनकाः संपद्यन्ते यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सत्त्वोपघातोऽपि न हिंसाय संपद्यते ततोऽशुभपरिणामजनकत्वे बाह्यं निमित्तमनैकान्तिकमेवेति ।। १७६८॥" विशेषा. .
"हिंसामि मुसं भासे हरामि परदारमाविसामि त्ति । चिंतेज कोइ नय चिंतियाण कोवाइसंभूई ॥ ३२५९ ॥ तहवि म धम्माधम्मोदयाइ संकप्पओ तहेहावि ।
वीयकसाए सवओऽधम्मो धम्मो य संथुणओ ॥ ३२६० ॥ 'हिनस्मि हरिणादीन्' 'मृषां भाषेऽहम्' तद्भाषणाच्च वश्चयामि देवदत्तादीन् , 'धनमपहरामि' 'तेषामेव परदारानाविशामि-निषेवेऽहम्' इत्यादि कश्चित् चिंतयेत् । न च तेषां चिन्तितानां ।। हिंसादिचिन्ताविषयभूतानां हरिणादीनां तत्कालं कोपादिसंभूति:- कोपादिसंभवोऽस्ति । तथापि हिंसादिचिन्तकस्याधर्मः, दयादिसंकल्पतस्तु तद्वतो धर्मो भवति, इत्यावयोरविगानेन प्रसिद्धमेव । तथेहापि प्रस्तुते वीतकषायानप्यर्हत्सिद्धादीन शपमानस्याधर्मः, संस्तुवतस्तु धर्म इति किं नेष्यते ? ॥" विशेषा• __"आया चेव अहिंसा आया हिंस ति निच्छओ एस।
जो होह अप्पमत्तो अहिंसओ, हिंसओ इयरो ॥ ३५३६ ॥ इहात्मा मनःप्रभृतिना करणेन हननघातनाऽनुमतिलक्षणां हिंसां तनिवृत्तिरूपामहिंसा करोतीति व्यवहारः, अस्यां च गाथायां निश्चयनयमतेन आत्मैव हननादिलक्षणा हिंसा स एव च तन्निवृत्तिरूपाऽहिंसेत्युक्तम् । तदनेनात्मनः करणस्य योगलक्षणस्य कर्मणश्चैकत्वमुक्तं भवतीति ।" विशेषा० । ओधनि. गा. ७५४ । ___“यत एव कर्मक्षयात् कर्मप्रकृतीनां विशिष्टतरोऽकरणनियमः क्षपकश्रेण्यामुपपन्नोऽतएव तज्जन्यगर्हितप्रवृत्तेरपि तत एव तथाऽकरणनियमाद् वीतरागः क्षीणमोहादिगुणस्थानवर्ती मुनिः नैव किञ्चित् करोति गर्हणीयं जीवहिंसादि, देशोनपूर्वकोटिकालं जीवनपि, गर्हणीयव्यापारबीजभूतकर्मक्षये गर्हणीयप्रवृत्तेरयोगात् ।” उपदेशरहस्य गा० ११४।। ___ "ननु यदि सदा गर्हणीयाऽप्रवृत्तिातरागस्याऽभ्युपगता तदा तस्य गमनागमनशब्दादि- 28 व्यापारो न युक्तस्तस्यां ततोऽन्योन्यपुद्गलप्रेरकत्वेनापि परप्राणव्यपरोपणानुकूलत्वेन हिंसान्तभूततया गर्हणीयत्वात् , हिंसादयो दोषा एव हि गर्हणीया लोकानामित्याशय समाधत्ते--
ण य तस्स गरहणिजो चेट्टारंभोत्थि जोगमित्तेणं ।।
जं अप्पमत्ताईणं सजोगिचरमाण णो हिंसा ॥ ११५॥ न तस्य वीतरागस्य, चेष्टारंभो गमनागमनशब्दादिव्यापारः गईणीयोऽस्ति, यद् यस्माद् , योगमात्रेण रागद्वेषासहचरितेन केवलयोगेन, अप्रमत्तादीनां सयोगिचरमाणां जीवानाम्, नो नैव, हिंसा, तेषां योगस्य कदाचित् प्राण्युपमर्दोपहितत्वेपि तत्त्वतो हिंसारूपत्वाभावात् तत्त्वतो हिंसाया एव गईणीयत्वादिति भावः, व्यक्तीभविष्यति चेदमुपरिष्टात् ।" - उपदेशरहस्य गा.११५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org