Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 200
________________ ९३ पृ. ७. पं० २१.] टिप्पणानि । __ यथेह वीतरागद्वेषमोहस्य भगवतः इष्टाः शब्दरूपादयो भावविशुद्धितो न कदाचिद् रतिफला रतिजनकाः संपद्यन्ते यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः संजायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सत्त्वोपघातोऽपि न हिंसाय संपद्यते ततोऽशुभपरिणामजनकत्वे बाह्यं निमित्तमनैकान्तिकमेवेति ।। १७६८॥" विशेषा. . "हिंसामि मुसं भासे हरामि परदारमाविसामि त्ति । चिंतेज कोइ नय चिंतियाण कोवाइसंभूई ॥ ३२५९ ॥ तहवि म धम्माधम्मोदयाइ संकप्पओ तहेहावि । वीयकसाए सवओऽधम्मो धम्मो य संथुणओ ॥ ३२६० ॥ 'हिनस्मि हरिणादीन्' 'मृषां भाषेऽहम्' तद्भाषणाच्च वश्चयामि देवदत्तादीन् , 'धनमपहरामि' 'तेषामेव परदारानाविशामि-निषेवेऽहम्' इत्यादि कश्चित् चिंतयेत् । न च तेषां चिन्तितानां ।। हिंसादिचिन्ताविषयभूतानां हरिणादीनां तत्कालं कोपादिसंभूति:- कोपादिसंभवोऽस्ति । तथापि हिंसादिचिन्तकस्याधर्मः, दयादिसंकल्पतस्तु तद्वतो धर्मो भवति, इत्यावयोरविगानेन प्रसिद्धमेव । तथेहापि प्रस्तुते वीतकषायानप्यर्हत्सिद्धादीन शपमानस्याधर्मः, संस्तुवतस्तु धर्म इति किं नेष्यते ? ॥" विशेषा• __"आया चेव अहिंसा आया हिंस ति निच्छओ एस। जो होह अप्पमत्तो अहिंसओ, हिंसओ इयरो ॥ ३५३६ ॥ इहात्मा मनःप्रभृतिना करणेन हननघातनाऽनुमतिलक्षणां हिंसां तनिवृत्तिरूपामहिंसा करोतीति व्यवहारः, अस्यां च गाथायां निश्चयनयमतेन आत्मैव हननादिलक्षणा हिंसा स एव च तन्निवृत्तिरूपाऽहिंसेत्युक्तम् । तदनेनात्मनः करणस्य योगलक्षणस्य कर्मणश्चैकत्वमुक्तं भवतीति ।" विशेषा० । ओधनि. गा. ७५४ । ___“यत एव कर्मक्षयात् कर्मप्रकृतीनां विशिष्टतरोऽकरणनियमः क्षपकश्रेण्यामुपपन्नोऽतएव तज्जन्यगर्हितप्रवृत्तेरपि तत एव तथाऽकरणनियमाद् वीतरागः क्षीणमोहादिगुणस्थानवर्ती मुनिः नैव किञ्चित् करोति गर्हणीयं जीवहिंसादि, देशोनपूर्वकोटिकालं जीवनपि, गर्हणीयव्यापारबीजभूतकर्मक्षये गर्हणीयप्रवृत्तेरयोगात् ।” उपदेशरहस्य गा० ११४।। ___ "ननु यदि सदा गर्हणीयाऽप्रवृत्तिातरागस्याऽभ्युपगता तदा तस्य गमनागमनशब्दादि- 28 व्यापारो न युक्तस्तस्यां ततोऽन्योन्यपुद्गलप्रेरकत्वेनापि परप्राणव्यपरोपणानुकूलत्वेन हिंसान्तभूततया गर्हणीयत्वात् , हिंसादयो दोषा एव हि गर्हणीया लोकानामित्याशय समाधत्ते-- ण य तस्स गरहणिजो चेट्टारंभोत्थि जोगमित्तेणं ।। जं अप्पमत्ताईणं सजोगिचरमाण णो हिंसा ॥ ११५॥ न तस्य वीतरागस्य, चेष्टारंभो गमनागमनशब्दादिव्यापारः गईणीयोऽस्ति, यद् यस्माद् , योगमात्रेण रागद्वेषासहचरितेन केवलयोगेन, अप्रमत्तादीनां सयोगिचरमाणां जीवानाम्, नो नैव, हिंसा, तेषां योगस्य कदाचित् प्राण्युपमर्दोपहितत्वेपि तत्त्वतो हिंसारूपत्वाभावात् तत्त्वतो हिंसाया एव गईणीयत्वादिति भावः, व्यक्तीभविष्यति चेदमुपरिष्टात् ।" - उपदेशरहस्य गा.११५। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244