Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
आहारणीहारविहीसु जोगो सव्वो अदोसाय जहा जतस्स । हियाय सस्संमिव सस्सियस्स भंडस्स एयं परिकम्मणं तु ॥
यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविधिविषयः सर्वोऽपि योगो भवन्मतेनापि 10 अदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेवमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह - 'हियाय सस्संमिव सस्सियस्स त्ति' - शस्येन चरति शास्थिकः तस्य, यथा तद्विषयं परिकर्मणं निहिणनादिकं हिताय भवति तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तम्
15
20
९६
ज्ञान बिन्दुप्रकरणस्य
[ पृ० ७. पं० २१अथ न तवेष्टं मतं यथा चिरमपि गवेष्य भिन्नं गृहीतव्यम्, तत उच्यते - यावत् तत् भिन्नं वस्त्रं मार्गयति तावत्तस्य श्रुतादौ सूत्रार्थ पौरुष्यादौ हानिर्भवति । अपि च य एव वस्त्रच्छेदनलक्षणो दोषः स प्रत्युपेक्षणशुद्धिविभूषापरिहारप्रभृतीनां गुणानां भूत्या संपदा युक्तः बहुगुणकलित इति भावः । कुत इत्याह । यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वन्ति 5 न पुनस्तत्राधिकं किमपि सूत्रार्थव्याघातादिकं दूषणमस्तीति ।
अथ 'जा यावि चिट्ठा इरियाइयाओं' इत्यादि परोक्तं परिहरन्नाह -
30
किन
“यद्वत्शस्यहितार्थं शस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति शस्यपीडा यत्नवतः साल्पदोषाय ॥ तद्वज्जीवहितार्थ जीवाकीर्णेऽपि विचरतो लोके । या भवति जीवपीडा यत्नवतः साल्पदोषाय ।। "
'अपि' इत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः । यदेवं योगवन्तं वस्त्रच्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे, तत् निश्चीयते सम्यसिद्धान्तमजानान एवं प्रलपसि । म हि सिद्धान्ते योगमात्रप्रत्ययादेव हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररूप्यते इत्याह । द्रव्येण 25 भावेन च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे भवन्ति । तथाहि । द्रव्यतो नामैका हिंसा न भावतः । भावतो नामैका हिंसा न द्रव्यतः । एका द्रव्यतोऽपि भावतोऽपि । एका न द्रव्यतो नापि भावतः । अथैषामेव यथाक्रमं भावनां कुर्वन्नाह -
अप्पेव सिद्धंतमजाणमाणो तं हिंसगं भाससि योगवंतं । दव्वेण भावेण य संविभत्ता चत्तारि भंगा खलु हिंसगते ॥
Jain Education International
आहच्च हिंसा समियस्स जा तू सा दव्वओ होइ ण भावतो उ । भावेण हिंसा तु असंजतस्सा, जे वा वि सत्ते ण सदा वधेति ॥ संपत्ति तस्सेव जदा भविजा सा दव्वहिंसा खलु भावओ अ । अज्झत्थसुद्धसजदा ण होजा वधेण जोगो दुहतो व हिंसा || समितस्येर्यासमितावुपयुक्तस्य याऽऽहञ्च कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा । इयं च प्रमादयोगाभावात् तत्त्वतोऽहिंसैव मन्तव्या । 'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' इति वचनात्, न भावत इति । भावेन भावतो या हिंसा न तु द्रव्यतः सा असंयतस्य प्राणाति
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244