Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
ज्ञानबिन्दुप्रकरणस्य [पृ० ७. पं० २१प्रमत्तो गुणवते पात्राय ददाति न्याय्यम्, साधूदेशेनाकृताकारिताननुमतं ग्रहीताप्यागमानुवृत्त्या गृहाति, कुतस्तत्रावद्येन योगः ?, अन्नदायिनो दानकाल एव च कर्मनिर्जरणादिफलाभिनिवृत्तेः । विषूचिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवा
साविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः । अज्ञानं विषूचिकायाः प्रमाद इति चेत् । 5 दातुस्तत्र स्वान्नस्य दानकाल एव त्यक्तत्वात् , परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति । यच्चावाचि-मातुर्गर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयोर्दुःखहेतुत्वादवद्येन योग इति, न, तदभिमतमेव जैनानाम् , तयोः प्रमत्तत्वात् । न चायमेकान्तः परदुःखोत्पादादवश्यंतयाऽवद्येन भवितव्यम् । अकषायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशर्मोत्पद्यते, तद्वयुत्सृष्टशरीरस्य वा व्यपगतासुनो दर्शनेन, न तहुःखनिमित्तम॥ स्यापुण्यमापतति साधोः। द्रव्यमात्रवधे चागमानुसारिणो भिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनैकान्त इत्यन्याय्यम् । स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेपि अवद्येन योगः । कचित् परसुखोत्पादे पुण्यलेशो निर्जरा वा - विहितानुष्ठायिनः साधोः क्षुत्पिपासार्तस्याधाकर्मादिदानेन एषणाविशुद्धेन, प्रासुकानपानदानेन वेति । यच्चोक्तम्अग्निदृष्टान्तसामर्थ्यात् वध्योपि अवघेन, वधक्रियासंबन्धाद्धन्तृवत् । यथा ह्यग्निः पूर्व 15 स्वाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसंबन्धिनी प्राक् तावद् वध्यमेवावद्येन योजयति "कर्मस्था च भिदेः क्रिया" इति वचनात्, यथा भिनत्ति कुसूलं देवदत्त इत्येवं हन्ति प्राणिनमिति । तदेतदसदिति । अनया क्रियया कर्तृसमवायिन्या कुसूलविदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता । तथा च यया कर्तृगतया हननक्रियया प्राणिवियोजनं कर्मस्थं क्रियते सा विवक्षिता । ज्वलनोप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव । एवं प्राणातिपातोपि हि प्रमत्तेन प्रयत्नरहितेन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः । अबुद्धिपूर्वकता च प्रमत्तता । तत्र कः प्रसङ्गो वध्यस्याधर्मेण ? । वधकसमवायिनी च हननक्रिया कर्तृफलदायिन्येव । प्रमत्तस्याध्यवसायो बन्धहेतुः । न च वध्यस्यात्महनने प्रमत्तताध्यवसायः। दृष्टान्तधर्मी चानेकधर्मा, तत्र कञ्चिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ समस्तधर्मविवक्षया 25 दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः । विकल्पसमा चेयं जातिरुपन्यस्ता वसुबन्धुवैधेयेन स्वाश्रयदाहित्वमनेर्विशेषधर्मोस्ति । न तु वधक्रियायाः स्वाश्रयेऽवद्ययोग इष्टः, तस्मान्नाग्निदृष्टान्तात् साध्यसिद्धिरिति । एतेन एतदपि प्रत्युक्तम् - 'परेण च कारयतो नाधर्मप्रसङ्गः । नहि अग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते' इति । यदप्यभिहितम् - 'अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः' इति । इष्टमेवैतत् । यतो येषां 30 जीवानां काष्ठादि शरीरं तदा चाव्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् बाधा । यञ्चोक्तम् - 'न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति' । एतदप्ययुक्तम् । अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याग्निरुदाहृतः। प्रयोगस्तु-अजानानस्य प्राणवधक्रिया अवद्यहेतुः, प्रमत्तव्यापारनिर्वृत्तत्वात् , तृतीयविकल्पप्राणवधक्रियावदिति।
यश्चावद्यहेतुर्न भवति स प्रमत्तव्यापारनिर्वृत्तोपि न भवति यथा प्रथमविकल्प इति । यच्चा35 शक्योक्तम्-खरसभरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्क्रान्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244