Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
पृ० ७. पं० २१.]
टिप्पणानि । मवद्यमविरतिहेतुकम् । निर्जरा तु विरतिहेतुकैव । पुण्यं च विरतिहेतुकमेव भूयसा । नहि पापाश्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति । एषाऽप्यविरतिर्मोहमनेकभेदमजहती प्रमादमेवास्कन्दति ।
प्रमत्तयोगाच्च प्राणातिपाताद्यवद्यमिति व्यवस्थिते यदुच्यते परेण -असंचिन्त्य वा भ्रान्त्या वा मरणं नावद्यहेतुकमिति । अत्र प्रतिविधीयते- असंचिन्त्य कुर्वतो यद्यवद्यासंभवस्ततो, मिथ्यादृष्टेरभावः सुगतशिष्याणाम् । यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिथ्येति संचिन्त्य । अथैवं मन्येथाः- तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुद्ध्या दन्दशूकं कल्पयतः कथं न हिंसा? । अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यात् - 'मिथ्यादर्शनमेतत्' इति । तुल्यमेव तत् सर्पच्छेदेऽपि । अथ संशयहेतुत्वात् मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावचं स्यात् ।। संसारमोचकगलकर्तकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचेयतामधर्मोऽयमिति एवं वा संचेयतां नावद्यं स्यात् , अन्याभिसंधित्वात् । अथैवं मन्येथाः - संचेतयन्येव ते प्राणिनो वयं हन्म इति । सत्यमेव तत्, किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मों भवतीति । संविद्रते च स्फुटमेवं सौगताः-प्रमादारम्भयोरवश्यंभावी प्राणवध इति । तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगतिकारण-15 मानन्तर्यकमबुद्धेरबुद्धित्वादेव न स्यात् । इष्यते चानन्तर्यकम् । अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासंचेतयतो भवेदानन्तर्यकम् , एवं सति मायासूनवीयानामपि अवद्येन योगः स्यात् यतः ते विदन्त्यार्हतामवनिदहनपवनजलवनस्पतयः प्राणिनः । अथैवमारेकया बुद्धोयमिति संज्ञानमात्रेण सांख्यादिरपि चिन्तयत्येव । एवं तर्हि संज्ञामात्रेण संचेतयतः कल्पाकारमपि बुद्धनामानं नत आनन्तर्यकं स्यात् । तथा मातापित्रद्वधस्तूप- 20 भेदानन्तर्येष्वपि योज्यम् । बालस्य किल पांसूनेव चेतयतोऽन्नमित्येवं वा चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदा प्रतीतमेव । तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपाताधवद्यहेतुतया ग्राह्यौ । अन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथा आत्मवधोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायाहते शस्त्रोल्लम्बनाग्निजलप्रवेशादिभिः । तस्मादात्मनोऽपि अविधिवधोऽवद्यहेतुरिति यत्किञ्चित् परग्रहणमपि इति । 25 एवं सति कचित् कचिद् भावत एव प्राणातिपाताचवद्यमप्रतिष्ठाननरकगामि । तन्दुलमत्स्यस्येव । कचिद् द्रव्यभावाभ्यां प्राणातिपातावद्यं हिंसा मारकस्येवेति । प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणः । ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावद्यम् । अप्रमत्तस्य तु आगमानुसारिणो न भवति ।
तस्मादेनःपदमेतद् वसुबन्धोरामिषगृद्धस्य गृध्रस्येवाप्रेक्षाकारिणः । अयं पुनरप्रसंग एव 30 मूढेनोपन्यस्तः - शिरोलुञ्चनाद्युपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसंग इति यतस्तत्राज्ञानादिप्रमादासंभवोऽत्यन्तमेव शासितरि । ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपो देशितम् । कुतोऽवद्यप्राप्तिरप्रमत्तस्येति । अन्नदानमपि श्रद्धाशक्त्यादिगुणसमन्वितोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/074d1dc46a7caf4a536b3a32ea635ca5589c9d0f13c2add3a7083992297040be.jpg)
Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244