Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 182
________________ पृ० ७. पं० २०.] टिप्पणानि । ७५ तत्र पदार्थो यथाश्रुतार्थः पद्यते गम्यतेऽर्थः सामान्यरूपोऽचालिताप्रत्यवस्थापितो येनेति व्युत्पत्तेः । तदाह - - "अत्थपदेण हु जम्हा एत्थ पर्यं होइ सिद्धति ॥" [ उपदेशपद गा० ८८३] वाक्यार्थः – चालनावाक्यार्थः । महावाक्यार्थश्च प्रत्यवस्थापनार्थ (नाम) वाक्यार्थः । ऐदम्पर्यार्थश्च तात्पर्यार्थः इति ॥ १५५ ॥ इत्थमर्थचातुर्विध्यमन्येषामपि सम्मतमित्याह - अण्णेहि वि पडिवनं एअं सत्तुग्गहाउ नट्ठस्स । भट्ठस्स य मग्गाओ मग्गन्नाणस्स णाएणं ।। १५६ ॥ अन्यैरपि एतत्पूर्वोक्तं प्रतिपन्नम् अङ्गीकृतम् । कथमित्याह – शत्रु प्रहान्नष्टस्य पाटलिपुत्रादौ प्रस्थितवतः पुरुषस्य कांचिद्विषमां भुवं प्राप्तस्य शत्रावुपस्थिते ग्रहीष्यत्ययमिति भयात् पलायि - 10 तस्य ततो मार्गाद्भष्टस्य मार्गज्ञानस्य मार्गावबोधस्य ज्ञातेन दृष्टान्तेन । तस्य हि मार्गजिज्ञासार्थं दूरे पुरुषमात्रमज्ञातविशेषं दृष्ट्वा सहसा तत्समीपगमनं न संभवति, कदाचित् शत्रुरपि भवेदयमिति संदेहात् । नापि तस्य परिव्राजकादिवेशधारिणोऽपि समीपे पथपृच्छार्थं गमनं युक्तम्, शत्रोरपि पथिकविश्वासनार्थं तथाविधवेशप्रतिपत्तेः संभाव्यमानत्वात् । बालवृद्धादिभ्यः सत्यवादितयाऽनुमतेभ्यः पृच्छायोग्यं पुरुषं तु ज्ञात्वाऽनुकूले मनः पवनशकुनादिना निरुप- 15 द्रवमार्गपरिज्ञानार्थं तत्समीपगमनं युज्यते । एवं हि अत्र पुरुषमात्रदर्शनतुल्यः पदार्थः, शत्रु वेशभेददर्शनतुल्यो वाक्यार्थः, बालादिभ्यः प्रामाणिकपुरुषावगमनतुल्यो महावाक्यार्थः, ऐदम्पर्यार्थस्तु शुद्धोऽधिकारी प्रष्टव्य इति द्रष्टव्यम् ।। १५६ ।। पदार्थादीनामेव सम्भूय कार्यकारित्वं व्यवस्थापयति एत्थ पयत्थाईणं मिहो अवेक्खा हु पुण्णभावंगं । लोअम्मि आगमे वा जह वक्कत्थे पयत्थाणं ।। १५७ ।। Jain Education International अत्र पदार्थादिषु अर्थभेदेषु, पदार्थादीनां मिथः परस्परमपेक्षा क्रमिकोत्पादरूपा पूर्णभावाङ्गं एकोपयोगाश्रययावत्पर्यायसिद्धिनिबन्धनम्, लोके आगमे वा यथा वाक्यार्थे पदार्थानाम् । अथ वाक्यार्थप्रतीतौ पदार्थप्रतीतीनां हेतुत्वात् तत्र तदपेक्षा युज्यते । प्रकृते पदार्थादीना मैदम्पर्यार्थपर्यवसन्नत्वेन कार्यान्तराभावात् क मिथोऽपेक्षास्त्विति चेत् । न । 25 यावत्पदार्थप्रतीतीनामेव वाक्यार्थप्रतीतित्वेन तेषां परस्परमपेक्षावत्पदार्थादीनां परस्परमपेक्षोपपत्तेः, सापेक्षपदार्थादिसमुदायात्मकोपयोग एव तदावरणक्षयोपशम हेतुत्वात् ॥ १५७ ॥ तत्र लोक एव तावत् पदार्थादीनां मिथोऽपेक्षां व्युत्पादयति पुरओ चिट्ठ रुक्खो इय वक्काओ पयत्थबुद्धीए । etaraणबुद्धीओ हुंति इयराओ ।। १५८ ॥ 'पुरतस्तिष्ठति वृक्ष:' इति वाक्यात् पदार्थबुद्ध्या मदभिमुखदेशस्थित्याश्रयो वृक्ष इत्याकारया ईहापायप्रयोजनविषया इतरा वाक्यार्थमहावाक्यार्थे दम्पर्यार्थ धीरूपा बुद्धयो भवन्ति । तथाहि 'अग्रे वृक्षस्तिष्ठति' इति प्रतीत्यनन्तरं 'वृक्षो भवन्नयं किं आम्रो वा स्यान्निम्बो वा' 5 For Private & Personal Use Only 20 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244