________________
पृ० ७. पं० २०.]
टिप्पणानि । वत्थाईण अगहणं एवं पत्तं मुणीण अविसेसा ।
आणाचाए दोसो नण्णह वत्थाइगहणे वि ॥ १६३ ॥ एवं सति ग्रन्थमात्रग्रहणनिषेधे मुनीनामविशेषाद्वस्त्रादीनामग्रहणं प्राप्तं । न हि स्वर्णादिकं ग्रन्थो वस्त्रादिकं च न प्रन्थ इति विशेषोऽस्ति । आज्ञात्यागे "जिणाण बारसरूवो उ" इत्यादिवचनोल्लने वस्त्रादिग्रहणेऽपि दोषोऽतिरिक्तोपकरणस्याधिकरणरूपत्वात्, नान्यथा आज्ञाया अत्यागे वस्त्रादिग्रहणेऽपि दोषः ॥ १६३ ॥
एयमगहणं भावा अहिगरणच्चायओ मुणेअव्वं ।
एस महावकत्थो अइदंपजं तु पुव्वुत्तं ॥ १६४ ॥ यत एतद्वस्त्रादिग्रहणं भावात् तत्त्वतोऽधिकरणत्यागत आर्तध्यानादिपरिहारात् अग्रहणं मुणेअव्वंति ज्ञातव्यम् । अग्रहणपरिणामोपष्टम्भकं ग्रहणमपि खलु अग्रहणमेव । एष महा- " वाक्यार्थः । ऐदम्पर्य तु पूर्वोक्तं आजैव सर्वत्र धर्मे सार इति ॥ १६४ ॥ वाक्यान्तरमधिकृत्याह -
तवज्झाणाइ कुजा एत्थ पयत्थो उ सव्वहिं ओहा ।
छहुस्सग्गाईणं करणं सेयं सिवढे ति ॥ १६५ ॥ 'तपोध्यानादि कुर्यात्' अत्र वाक्ये पदार्थस्तु सर्वत्र ओघेन समर्थासमर्थादिपरिहारसामा-15 न्येन शिवार्थं मोक्षार्थं षष्ठोत्सर्गादीनां करणं श्रेय इति ॥ १६५ ॥
तुच्छावत्ताईणं तकरणं अकरणं अओ पत्तं ।
बहुदोसपसंगाओ वकत्थो एस दट्ठव्वो ॥ १६६ ॥ तुच्छा असमर्थाः बालवृद्धादिलक्षणाः, अव्यक्ताश्च अगीतार्थाः, आदिनावश्यकहानियोग्यादिग्रहस्तेषामतः पदार्थात् तत्करणं षष्ठोत्सर्गादिकरणं प्राप्तं बहुदोषप्रसंगात् शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्तध्यानमयत्वेन तिर्यगाद्यशुभजन्माद्यापत्तेः अकरणं तत्त्वतोऽकरणमेव तत् , एष वाक्यार्थो द्रष्टव्यः ॥ १६६ ॥
एस महावकत्थो समयाबाहेण एत्थ जमदोसो।
सव्वत्थ समयणीई अइदंपजत्थओ इट्टा ॥ १६७ ॥ एष महावाक्यार्थः यत्समयाबाधेनागमानुल्लङ्घनेन, अत्रादोषः । आगमश्चायमत्र व्यवस्थितः
"तो जह न देह पीडा न यावि विमंससोणियत्तं च ।
जह धम्मज्झाणवुड्डी तहा इमं होइ कायव्वं ॥" ऐदम्पर्यार्थत ऐदम्पर्यार्थमाश्रित्य सर्वत्र समयनीतिरागमनीतिरेव, इष्टाऽभिमता । तस्या एव सर्वत्राधिकार्यनधिकार्यादिविभागप्रदर्शनहेतुत्वात् ॥ १६७ ॥ ...वाक्यान्तरमप्यधिकृत्याह -
दाणपसंसणिसेहे पाणवहो तय च वित्तिपडिसेहो। एत्थ पयत्थो एसो जं एए दो महापावा ॥ १६८ ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org