SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ज्ञानबिन्दुप्रकरणस्य [पृ० ७. पं० २०इति वाक्यार्थप्रतीतिः प्रादुर्भवति । ततः प्रतिविशिष्टाकारावलोकनेन 'आम्र एवायम्' इति महावाक्यार्थधीः स्यात् । ततः पुरःसरम् 'आम्रार्थिना प्रवर्तितव्यम्' इत्यैदम्पर्यार्थधीरिति । नह्येवं प्रकारं विना निराकांक्षप्रतीतिः सिद्ध्येत् पदार्थमात्रज्ञानात् पदार्थस्मारितविशेषार्थजिज्ञासारूपाया आकांक्षाया अनुच्छेदात् वाक्यार्थस्यापर्यवसितत्वात् ॥ १५८ ॥ ____ आगमेपि तामाह - हंतव्वा नो भूआ सव्वे इह पायडो चिय पयत्थो । मणमाईहिं पीडं सव्वेसिं चेव ण करिजा ॥ १५९ ॥ 'सर्वाणि भूतानि न हंतव्यानि' इह प्रकट एव पदार्थः । मनआदिभिर्मनोवाकायैः पीडां बाधां सर्वेषामेव समस्तानामपि जीवानां न कुर्यात् , न विदध्यादिति ॥ १५९ ॥ * आवन्नमकरणिजं एवं चेइहरलोचकरणाई । इय वक्कत्थो अ महावकत्थो पुण इमो एत्थ ॥ १६०॥ एवं सति चैत्यगृहलोचकरणादिकमकरणीयं साधुश्राद्धानां अकर्तव्यमापन्नम् , तत्रापि परपीडानुगमात् इत्येष वाक्यार्थश्चालनागम्यः । महावाक्यार्थः पुनरत्रायम् ॥ १६० ॥ अविहिकरणंमि दोसो तो विहिणा चेव होइ जइअव्वं । अइदंपजत्थो पुण आणा धम्मम्मि सारो त्ति ॥१६१ ॥ - अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेः, दोषो हिंसापत्तिः विधिकरणनान्तरीयकासत्प्रवृत्तिनिवृत्तिपरिणामजनितस्याहिंसानुबन्धस्य प्रच्यवात् । तत् तस्मात् विधिनैव यतितव्यं भवति चैत्यगृहलोचाद्यर्थे । तदिदमुक्तम् - "अविहिकरणंमि आणाविराहणा दुट्टमेव एएसिं । ता विहिणा जइअव्वं ति" - [ उपदेशपद गा० ८६७ ] चैत्यगृहकरणविधिश्च- "जिनभवनकरणविधिः शुद्धा भूमिर्दलं च काष्ठादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥" इत्यादिग्रन्थोक्तः । लोचकर्मविधिस्तु - "धुवलोओ अ जिणाणं वासावासेसु होइ थेराणं । तरुणाणं चउमासे वुड्डाण होइ छम्मासे ॥" इत्याधुक्तः । ऐदम्पर्यार्थः पुनः 'आज्ञा धर्मे सारः' इति । तामन्तरेण धर्मबुद्ध्यापि कृतस्य निरवद्यत्वाभिमतस्यापि कार्यस्य निष्फलत्वादिति ॥ १६१ ॥ वाक्यान्तरमधिकृत्याह गंथं चएज एत्थ वि सचेअणाचेअणं चए वत्थु । एस पयत्थो पयडो वक्कत्थो पुण इमो होइ ॥ १६२ ॥ 'ग्रन्थं त्यजेत्' इत्यत्रापि सचेतनमचेतनं च वस्तु त्यजेन्न गृह्णीयात् इति एष प्रकटः पदार्थः । वाक्यार्थः पुनरयं च वक्ष्यमाणलक्षणो भवति ॥ १६२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy