Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
पृ० २. पं० ५०]
टिप्पणानि ।
सादित्वात्तेषामनाद्यज्ञानाश्रयत्वानुपपत्तिरिति चेत् । अन्तःकरणेपि तुल्यम् । सत्कार्यवादाश्रयणान्न साद्यन्तःकरणमिति चेत् । चक्षुरादावपि तुल्यम् । अतो न तदनाद्यज्ञानाश्रयमिति । अनृतनीहारादिशब्दैश्व प्राप्तज्ञानानामग्रहणवतां चेतनानामेवावृतत्वाभिधानान्नान्तःकरणाश्रयमज्ञानं किन्तु चैतन्याश्रयमित्यलमतिविस्तरेण” – पंच० विव० पृ० ४५-४६
वाचस्पतिकृतं स्वमतोपपादनं चेत्थम् -
"अनेन अन्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदरूपः चेतनः कर्त्ता भोक्ता कार्यकारणाsविद्याद्वयाधारः अहङ्कारास्पदं संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासोपादानः तदुपादानच अभ्यासः इत्यनादित्वाद् बीजाङ्कुरवत् नेतरेतराश्रयत्वमित्युक्तं भवति ।" भामती पृ० ४५
५७
"नाऽविद्या ब्रह्माश्रया, किन्तु जीवे । सा तु अनिर्वचनीया इत्युक्तम्, तेन नित्यशुद्धमेव ब्रह्म ।" भामती पृ० १२६
Jain Education International
5
विद्यारण्यस्वामिना स्वकीये विवरणप्रमेयसंग्रहे
मंडनमिश्रीयं वाचस्पति मिश्रवर्णितम् अज्ञानस्य जीवाश्रयत्वपक्षं सविस्तरं निरस्यता प्रसंगात् भास्करसम्मतम् अज्ञानस्य अन्त:करणाश्रयत्वपक्षमपि निरस्य सर्वज्ञात्ममुनिसम्मतः विवरणाचार्योपपादितश्च अज्ञानस्य ब्रह्माश्रयत्वपक्षः उपोद्बलितः । तद्यथा - "यद्यप्यसाव विद्या चिन्मात्रसंबन्धिनी जीवब्रह्मणी विभ- 15 जते तथापि ब्रह्मस्वरूपमुपेक्ष्य जीवभाग एव पक्षपातिनी संसारं जनयेद् यथा मुखमात्र - संबन्धि दर्पणादिकं बिम्बप्रतिबिम्बौ विभज्य प्रतिबिम्बभाग एवातिशयमादधाति तद्वत् । नन्वहमज्ञ इत्यहङ्कारविशिष्टात्माश्रितमज्ञानमवभासते न चिन्मात्राश्रितमिति चेत् मैवम् । यद्वदयो दहतीत्यत्र दग्धृत्वायसोरेकाग्निसंबन्धात् परस्परसंबन्धावभासः तद्वदज्ञानान्तःकरणयोरेकात्मसंबन्धादेव सामानाधिकरण्यावभासो न त्वन्तःकरणस्याज्ञानाश्रयत्वात् । अन्यथाऽवि - 20 द्यासंबन्धे सत्यन्तःकरणसिद्धिरन्तःकरणविशिष्ठे चाविद्यासंबन्ध इति स्यादन्योन्याश्रयता | न चान्तःकरणमन्तरेणाविद्यासंबन्धो न दृष्टचरः सुषुप्ते संगतत्वात् । अथासङ्गस्य चैतन्यस्याश्रयत्वानुपपत्तेर्विशिष्टाश्रयत्वं कल्प्यत इति चेत्, तदाप्यन्तः करण चैतन्य तत्संबन्धानामेव विशिष्टत्वे चैतन्यस्याश्नयत्वं दुर्वारम् । अन्यदेव तेभ्यो विशिष्टमिति चेत् तथापि जडस्य तस्य नाज्ञानाश्रयत्वम् । अन्यथा भ्रान्तिसम्यग्ज्ञानमोक्षाणामपि जडाश्रयत्वप्रसङ्गात्, अज्ञानेन 25 सहैकाश्रयत्वनियमात् । न च चैतन्यस्य काल्पनिकेनाश्रयत्वेन वास्तवं असङ्गत्वं विहन्यते । अतश्चिन्मात्राश्रितमज्ञानं जीवपक्षपातित्वाज्जीवाश्रितमित्युच्यते ।
For Private & Personal Use Only
10
यस्तु भास्करोऽन्तःकरणस्यैवाज्ञानाश्रयत्वं मन्यते तस्य तावदात्मनः सदा सर्वज्ञत्वमनुभवविरुद्धम् । असर्वज्ञत्वे च कदाचित् किंचिन्न जानातीत्यज्ञानमात्मन्यभ्युपेयमेव । अथाग्रहणमिथ्याज्ञानयोरात्माश्रयत्वेऽपि मन्यसे तदापि 30 ज्ञानादन्यश्चेदज्ञानं काचकामलाद्येव तत्स्यात् । अथ ज्ञानविरोधि तन्न । आत्माश्रितज्ञानेनान्तःकरणाश्रितस्याज्ञानस्य विरोधासंभवात् । एकस्मिन्नपि विषये देवदत्तनिष्ठज्ञानेन यज्ञदत्तनिष्ठा - ज्ञानस्यानिवृत्तेः । अन्यत्र भिन्नाश्रययोरविरोधेऽपि करणगतमज्ञानं कर्तृगतज्ञानेन विरुध्यत
भावरूपमज्ञानमन्तःकरणाश्रयमिति
ज्ञा० ८
www.jainelibrary.org

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244