Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
पृ० ६. पं० १४.] टिप्पणानि ।...
६७ औदयिकभावः मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्द्धकानामुदयः न सर्वघातिनां तेन सर्वदापि तासामौदयिकक्षायोपशमिको भावौ संमिश्री प्राप्येते, न केवल औदयिकः ।” पञ्च० म० प्र० गा० ३० पृ. १३३ । " पृ० ५. पं० २०. 'विपाकोदयेऽपि - “आह - क्षायोपशमिको भावः कर्मणामुदये सति भवति अनुदये वा ? । न तावदुदये विरोधात् । तथाहि - क्षायोपशमिको भाव उद-: यावलिकाप्रविष्टस्यांशस्य क्षये सति अनुदितस्य चोपशमे विपाकोदयविष्कम्भलक्षणे प्रादुभवति नान्यथा ततो यादयः कथं क्षयोपशमः, क्षयोपशमश्चेत् कथमुदयः इति । अथानुदय इति पक्षः तथा सति किं तेन क्षायोपशमिकेन भावेन ?, उदयाभावादेव विवक्षितफलसिद्धेः । तथाहि मतिज्ञानादीनि मतिज्ञानावरणाद्युदयाभावादेव सेत्स्यन्ति किं क्षायोपशमिकभावपरिकल्पनेन ? । उच्यते । उदये क्षायोपशमिको भावः । न च तत्र विरोधः । यत । आह- इह ज्ञानावरणीयादीनि कर्माणि आसर्वक्षयात् ध्रुवोदयानि, ततस्तेषामुदये एव क्षयोपशमो घटते नानुदये, उदयाभावे तेषामेवासम्भवात् । तत उदय एवाविरुद्धः क्षायोपशमिको भावः । यदपि विरोधोद्भावनं कृतं 'यादयः कथं क्षयोपशमः' इत्यादि तदप्ययुक्तम् । देशघातिस्पर्धकानामुदयेऽपि कतिपयदेशघातिस्पर्धकाऽपेक्षया यथोक्तक्षयोपशमाविरोधात्। स च क्षयोपशमोऽनेकभेदः तत्तद्र्व्यक्षेत्रकालादिसामग्रीतो वैचित्र्यसम्भवादनेकप्रकारः । उदय ।। एव चाविरुद्ध एष क्षायोपशमिको भावो यदि भवति तर्हि न सर्वप्रकृतीनां किन्तु त्रयाणामेव कर्मणां ज्ञानावरणदर्शनावरणान्तरायाणाम् । मोहनीयस्य तर्हि का वार्ता ? इति चेत् । अत
-मोहनीयस्य प्रदेशोदये क्षायोपशमिको भावोऽविरुद्धः न विपाकोदये । यतोऽनन्तानुबन्ध्यादिप्रकृतयः सर्वघातिन्यः, सर्वघातिनीनां च रसस्पर्धकानि सर्वाण्यपि सर्वघातीन्येव न देशघातीनि । सर्वघातीनि च रसस्पर्धकानि स्वघात्यं गुणं सर्वात्मना नन्ति न देशतः, ततस्तेषां विपाकोदये न क्षयोपशमसंभवः, किन्तु प्रदेशोदये । ननु प्रदेशोदयेऽपि कथं झायोपशमिकभावसम्भवः ?, सर्वघातिरसस्पर्द्धकप्रदेशानां सर्वस्वघात्यगुणघातनस्वभावत्वात् । तदयुक्तम् , वस्तुतत्त्वापरिज्ञानात् , ते हि सर्वघातिरसस्पर्द्धकप्रदेशास्तथाविधाध्यवसायविशेषतो मनाग्मन्दानुभावीकृत्य विरलविरलतया वेद्यमानदेशघातिरसस्पर्द्धकेष्वन्तःप्रवेशिता न यथावस्थितमात्ममाहात्म्यं प्रकटयितुं समर्थाः, ततो न ते क्षयोपशमहन्तारः, इति न विरुध्यते ७ प्रदेशोदये क्षायोपशमिको भावः । 'अणेगभेदो' त्ति इत्यत्रेतिशब्दस्याधिकस्याधिकार्थसंसूचनान्मिथ्यात्वाद्यद्वादशकषायरहितानां शेषमोहनीयप्रकृतीनां प्रदेशोदये विपाकोदये वा क्षयोपशमोऽविरुद्ध इति द्रष्टव्यम्, तासां देशघातित्वात् । तत्राप्ययं विशेषः- ताः शेषा मोहनीयप्रकृतयोऽध्रुवोदयाः, ततो विपाकोदयाभावे क्षायोपशमिके भावे विजृम्भमाणे प्रदेशोदयसम्भवेऽपि न ता मनागपि देशविघातिन्यो भवन्ति । विपाकोदये तु प्रवर्त्तमाने क्षायोपश- ३॥ मिकभावे मनाग्मालिन्यमात्रकारित्वाद्देशघातिन्यो भवन्ति ।” पञ्च० म० प्र० गा० २८ पृ. १३२ ।
पृ० ६. पं० ६. 'कर्मप्रकृति' - पृ० १३-१४ । नन्दी० म० पृ० ७७-८० । . पृ० ६. पं० १४. 'श्रुतं तु'.......... "इंदियमणोनिमित्तं जं विण्णाणं सुयाणुसारेण ।
... निययत्थुत्तिसमत्थं तं भावसुयं मई सेसं ॥" विशेषा० गा० १००। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244