Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 173
________________ ६६ [ पृ० ५. पं० ६ पूर्वोक्ता एव सप्तदश प्रकृतयश्चतुस्त्रिद्व्येकस्थानकरसाः उच्यन्ते, न शेषाः प्रकृतयः ? ।” पञ्च म० प्र० गा० ५१ पृ० १४५ । ज्ञानबिन्दुप्रकरणस्य - "अत्र सूरिराह - जलरेखासमेऽपि जलरेखातुल्येऽपि कषाये संज्वलन लक्षण उदयभागते न केवलद्विकस्य केवलज्ञानावरणकेवलदर्शनावरणरूपस्यैकस्थानिको रसो भवति, कुतं ? $ इत्याह – यत् यस्मात् 'से' तस्य केवलद्विकस्य तनुकमपि सर्वजघन्यमध्यावरणं रसलक्षणं हु निश्चितं सर्वघाति भणितं तीर्थकरगणधरैः, सर्वजघन्योऽपि रसस्तस्य सर्वघाती भणित इति भावार्थः । सर्वघाती च रसो जघन्यपदेऽपि द्विस्थानक एव भवति नैकस्थानकः, ततो न केवलद्विकस्यैकस्थानरसबन्धसम्भवः ।” पञ्च० म० प्र० गा० ५२ पृ० १४५ ॥ 1 पृ० ५. पं० ६. ‘पंचसंग्रहमूलटीकायाम् ' - मोहनीयस्योपशमभावे सति औपशमिक॥ सम्यक्त्व सर्व विरतिरूपौ गुणौ जीवस्य प्रादुर्भवतः । घातिकर्मणां क्षयोपशमभावे सति चारित्रादयो गुणाः प्रादुर्भवन्ति । आह - ज्ञानदर्शने परित्यज्य चारित्रादयो गुणाः किमिति अभिधीयन्ते ? । उच्यते- ज्ञानदर्शनयोस्तद्भावेऽवश्यम्भावित्वज्ञापनार्थं घातिकर्मप्रकृतिषु च कासुचिदपि क्षयोपशमभावाभावज्ञापनार्थं च चारित्रादयो गुणा अभिहिताः । तत्र मतिज्ञानावरणादिक्षयोपशमे सति मत्यादीनि चत्वारि ज्ञानानि । चक्षुदर्शनावरणादीनां क्षयो1 पशमे सति दर्शनत्रयम् । एवमन्तरायक्षयोपशमे सति दानादिपञ्चलब्धयो भवन्ति । मिथ्यात्वप्रथम कषायक्षयोपशमे वेदकसम्यक्त्वम् । द्वितीयकषायक्षयोपशमे देशविरतिचारित्रं तृतीयकषायक्षयोपशमे सर्वविरतिचारित्रमिति चारित्रादयो गुणाः ।" पंच० खो० प्र० गा० २६ पृ० १३० । “तथा देशावरणोदये सत्यपि यो हन्तव्यविषयस्य देशप्रादुर्भावः स क्षायोपशमिको 20 भावः । आह – यद्येवं ततः सर्वघातिप्रदेशोदये मोहनीयस्य कथं क्षायोपशमिको भाव इति ? | उच्यते - ते हि प्रदेशा रसभावेनाप्रधाना यथासम्भवं देशघातिवेद्यमानरसान्तर्गताः स्वरूपमप्रकटयन्तो देशघातिरसप्राधान्यात् क्षायोपशमिकभावं जनयन्ति । एवं मनःपर्यायज्ञानचक्षुरवधिदर्शनानामपि भावना कार्या । मतिश्रुतज्ञानाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां सदैवोदयं प्रति देशघातिरसस्पर्धकानामेवोद्रयः ततो भावद्वयं भावितमेव ।” पञ्च० खो० प्र० 25 गा० ३० पृ० १३३ । 30 “सम्प्रति यथौदयको भावः शुद्धो भवति, यथा च क्षयोपशमानुविद्धस्तथोपदर्शयति - अवधिज्ञानावरणप्रभृतीनां देशघातिनां कर्मणां सम्बन्धिषु सर्वघातिरसस्पर्द्धकेषु तथाविधविशुद्धाध्यवसाय विशेषबलेन निहतेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु तेषां मध्ये कतिपयरसस्पर्द्धकगतस्योदयावलिकाप्रविष्टस्यांशस्य क्षये, शेषस्य चोपशमे विपाकोदयविष्कम्भरूपे सति जीवस्यावधिमनः पर्यायज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिका जायन्ते प्रादुर्भवन्ति । किमुक्तं भवति ? यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघातीनि रसस्पर्द्धकानि विपाकोदयमागतानि वर्त्तन्ते तदा तद्विषय औदयिक एक एव भावः केवलो भवति, यदा तु देशघातिरसस्पर्द्धकानामुदयस्तदा तदुदयादौदयिको भावः कतिपयानां च देशघातिरसस्पर्द्धकानां सम्बन्धिन उदद्याव35 लिकाप्रविष्टस्यांशस्य क्षये, शेषस्य चानुदितस्योपशमे, क्षायोपशमिक इति क्षयोपशमानुविद्ध For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244