Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 172
________________ पृ० ४. पं० २. ] टिप्पणानि । ६५ रसबन्धसम्भवोऽनिवृत्तिबादर सम्परायाद्धायाः संख्येयेभ्यो भागेभ्यः परतः, नार्वाक्, तद्यो - ग्याध्यवसायस्थानासम्भवात् परतोऽप्युक्तरूपाः सप्तदशप्रकृतीर्व्यतिरिच्य शेषा अशुभप्रकृयो बन्धमेव नायान्ति, तद्बन्धहेतुव्यवच्छेदात् । ये अपि केवलज्ञानावरण केवलदर्शनावरणे बन्धमायातः, तयोरपि सर्वघातित्वाद् द्विस्थानक एव रसो बन्ध मागच्छति, नैकस्थानकः, सर्वघातिनीनां जघन्यपदेऽपि द्विस्थानकरसबन्धसम्भवात् । यास्तु शुभाः प्रकृतयस्ता - 5. सामत्यन्तविशुद्धौ वर्त्तमानश्चतुःस्थानकमेव रसं बध्नाति, न त्रिस्थानकं द्विस्थानकं वा । मन्दमन्दतरविशुद्धौ तु वर्त्तमानस्त्रिस्थानकं वा बध्नाति द्विस्थानकं वा, यदात्यन्ता विशुद्ध संक्लेशाद्धायां वर्त्तते, तदा तस्य शुभप्रकृतयो बन्धमेव नायान्ति, कुतस्तद्गतरसस्थान चिन्ता ? | या अपि नरकगतिप्रायोग्यं बनतोऽतिसंक्लिष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बन्धमायान्ति, तासामपि तथास्वाभाव्यात् द्विस्थानकस्यैव रसस्य बन्धः, नैकस्थानकस्य, एतच्चा 10 स्वयमेव वक्ष्यति, परमिह प्रस्तावादुक्तम् । तत इत्थं शेषप्रकृतीनामेकस्थान करसबन्धासम्भवात् समीचीनमुक्तं द्वित्रिचतुःस्थानपरिणताः शेषाः प्रकृतय इति ।" पच० म० प्र० गा० ३१ पृ० १३४ । पृ० ३. पं० २८. 'शेषास्तु' - "शेषाशुभानामपि प्रागुक्तमतिज्ञानावरणीयादिसप्तदशप्रकृतिव्यतिरिक्तानामशुभप्रकृतीनां नैकस्थानकरसबन्धसम्भवो यत् - यस्मात् कारणात् क्षप- 15 केतरेषां क्षपकस्यापूर्वकरणस्य इतरयोरप्रमत्तप्रमत्तसंयतयोर्न तादृशी शुद्धिर्यत एकस्थानकरसबन्धो, यदा तु एकस्थानकरसबन्धयोग्या परमप्रकर्षप्राप्ता विशुद्धिरनिवृत्तिबादरसंपरायाद्धायाः संख्येयेभ्यो भागेभ्यः परतो जायते तदा बन्धमेव न ता आयान्तीति न तासामेकस्थानको रसः । तथा शुभानामपि मिध्यादृष्टिः संक्लिष्टो हु निश्चितं नैकस्थानकं रसं बध्नाति, यस्मात्तासां शुभप्रकृतीनामतिसंक्लिष्टे मिध्यादृष्टौ बन्धो न भवति किन्तु मनाग् विशुद्ध्यमाने, संक्केशो- 20 स्कर्षे व शुभप्रकृतीनामेकस्थानकरसबन्धसम्भवो न तदभावे, ततस्तासामपि जघन्यपदेऽपि द्विस्थानक एव रसः, नैकस्थानकः, यास्त्वतिसंक्लिष्टेऽपि मिध्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसादिकाः शुभप्रकृतयो बन्धमायान्ति, तासामपि तथाखाभाव्याज्जघन्यतोऽपि द्विस्थानक एव रसो बन्धमधिगच्छति नैकस्थानकः ।” पश्च० म० प्र० गा० ५३ पृ० १४६ । पृ० ४. पं० २. ' न च यथा' - "ननु यथा श्रेण्यारोहेऽनिवृत्तिबादरसम्परायाद्धायाः 25 संख्येयेषु भागेषु गतेषु सत्सु परतोऽतिविशुद्धिसम्भवान्मतिज्ञानावरणीयादीनामशुभप्रकृतीनामेकस्थानकं रसं बध्नाति, तथा क्षपकश्रेण्यारोहे सूक्ष्मसम्परायञ्चरमद्विचरमादिषु समयेषु वर्त्त - मानोऽतीव विशुद्धत्वात्केवलद्विकस्य केवलज्ञानावरण केवलदर्शनावरणरूपस्य किं नैकस्थानकं रसं निर्वर्त्तयति ?, केवलद्विकं शुभमतिविशुद्ध कश्च बन्धकेषु क्षपक श्रेण्यारूढः सूक्ष्म सम्परायः, ततो मतिज्ञानावरणीयादेवि सम्भवति केवलद्विकस्याप्येकस्थानकरसबन्धः स किं नोक्तः ? 130 इति प्रष्ठुरभिप्रायः । तथा हास्यादिषु पष्ठीसप्तम्योरर्थं प्रत्यभेदात् । हास्यादीनां - हास्यरति - भयजुगुप्सानामशुभत्वात् अपूर्वोऽपूर्वकरणो, हास्यादिबन्धकानां मध्ये तस्यातिविशुद्धिप्रकर्षप्राप्तत्वात् । शुभादीनां च शुभप्रकृतीनां मिथ्यादृष्टिरतिसंक्लिष्टः, संक्लेशप्रकर्षसम्भवे हि शुभप्रकृतीनामेकस्थानकोऽपि रसबन्धः सम्भाव्यते इति कथमेकस्थानकं रसं न बध्नाति ?, येन ज्ञा० ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244