________________
पृ० ४. पं० २. ]
टिप्पणानि ।
६५
रसबन्धसम्भवोऽनिवृत्तिबादर सम्परायाद्धायाः संख्येयेभ्यो भागेभ्यः परतः, नार्वाक्, तद्यो - ग्याध्यवसायस्थानासम्भवात् परतोऽप्युक्तरूपाः सप्तदशप्रकृतीर्व्यतिरिच्य शेषा अशुभप्रकृयो बन्धमेव नायान्ति, तद्बन्धहेतुव्यवच्छेदात् । ये अपि केवलज्ञानावरण केवलदर्शनावरणे बन्धमायातः, तयोरपि सर्वघातित्वाद् द्विस्थानक एव रसो बन्ध मागच्छति, नैकस्थानकः, सर्वघातिनीनां जघन्यपदेऽपि द्विस्थानकरसबन्धसम्भवात् । यास्तु शुभाः प्रकृतयस्ता - 5. सामत्यन्तविशुद्धौ वर्त्तमानश्चतुःस्थानकमेव रसं बध्नाति, न त्रिस्थानकं द्विस्थानकं वा । मन्दमन्दतरविशुद्धौ तु वर्त्तमानस्त्रिस्थानकं वा बध्नाति द्विस्थानकं वा, यदात्यन्ता विशुद्ध संक्लेशाद्धायां वर्त्तते, तदा तस्य शुभप्रकृतयो बन्धमेव नायान्ति, कुतस्तद्गतरसस्थान चिन्ता ? | या अपि नरकगतिप्रायोग्यं बनतोऽतिसंक्लिष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बन्धमायान्ति, तासामपि तथास्वाभाव्यात् द्विस्थानकस्यैव रसस्य बन्धः, नैकस्थानकस्य, एतच्चा 10 स्वयमेव वक्ष्यति, परमिह प्रस्तावादुक्तम् । तत इत्थं शेषप्रकृतीनामेकस्थान करसबन्धासम्भवात् समीचीनमुक्तं द्वित्रिचतुःस्थानपरिणताः शेषाः प्रकृतय इति ।" पच० म० प्र० गा० ३१
पृ० १३४ ।
पृ० ३. पं० २८. 'शेषास्तु' - "शेषाशुभानामपि प्रागुक्तमतिज्ञानावरणीयादिसप्तदशप्रकृतिव्यतिरिक्तानामशुभप्रकृतीनां नैकस्थानकरसबन्धसम्भवो यत् - यस्मात् कारणात् क्षप- 15 केतरेषां क्षपकस्यापूर्वकरणस्य इतरयोरप्रमत्तप्रमत्तसंयतयोर्न तादृशी शुद्धिर्यत एकस्थानकरसबन्धो, यदा तु एकस्थानकरसबन्धयोग्या परमप्रकर्षप्राप्ता विशुद्धिरनिवृत्तिबादरसंपरायाद्धायाः संख्येयेभ्यो भागेभ्यः परतो जायते तदा बन्धमेव न ता आयान्तीति न तासामेकस्थानको रसः । तथा शुभानामपि मिध्यादृष्टिः संक्लिष्टो हु निश्चितं नैकस्थानकं रसं बध्नाति, यस्मात्तासां शुभप्रकृतीनामतिसंक्लिष्टे मिध्यादृष्टौ बन्धो न भवति किन्तु मनाग् विशुद्ध्यमाने, संक्केशो- 20 स्कर्षे व शुभप्रकृतीनामेकस्थानकरसबन्धसम्भवो न तदभावे, ततस्तासामपि जघन्यपदेऽपि द्विस्थानक एव रसः, नैकस्थानकः, यास्त्वतिसंक्लिष्टेऽपि मिध्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसादिकाः शुभप्रकृतयो बन्धमायान्ति, तासामपि तथाखाभाव्याज्जघन्यतोऽपि द्विस्थानक एव रसो बन्धमधिगच्छति नैकस्थानकः ।” पश्च० म० प्र० गा० ५३ पृ० १४६ ।
पृ० ४. पं० २. ' न च यथा' - "ननु यथा श्रेण्यारोहेऽनिवृत्तिबादरसम्परायाद्धायाः 25 संख्येयेषु भागेषु गतेषु सत्सु परतोऽतिविशुद्धिसम्भवान्मतिज्ञानावरणीयादीनामशुभप्रकृतीनामेकस्थानकं रसं बध्नाति, तथा क्षपकश्रेण्यारोहे सूक्ष्मसम्परायञ्चरमद्विचरमादिषु समयेषु वर्त्त - मानोऽतीव विशुद्धत्वात्केवलद्विकस्य केवलज्ञानावरण केवलदर्शनावरणरूपस्य किं नैकस्थानकं रसं निर्वर्त्तयति ?, केवलद्विकं शुभमतिविशुद्ध कश्च बन्धकेषु क्षपक श्रेण्यारूढः सूक्ष्म सम्परायः, ततो मतिज्ञानावरणीयादेवि सम्भवति केवलद्विकस्याप्येकस्थानकरसबन्धः स किं नोक्तः ? 130 इति प्रष्ठुरभिप्रायः । तथा हास्यादिषु पष्ठीसप्तम्योरर्थं प्रत्यभेदात् । हास्यादीनां - हास्यरति - भयजुगुप्सानामशुभत्वात् अपूर्वोऽपूर्वकरणो, हास्यादिबन्धकानां मध्ये तस्यातिविशुद्धिप्रकर्षप्राप्तत्वात् । शुभादीनां च शुभप्रकृतीनां मिथ्यादृष्टिरतिसंक्लिष्टः, संक्लेशप्रकर्षसम्भवे हि शुभप्रकृतीनामेकस्थानकोऽपि रसबन्धः सम्भाव्यते इति कथमेकस्थानकं रसं न बध्नाति ?, येन
ज्ञा० ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org