________________
६४
ज्ञानबिन्दुप्रकरणस्य [पृ० ३. पं० २४निर्मलः । इह रसः केवलो न भवति ततो रसस्पर्धकसंघात एवंरूपो द्रष्टव्यः ।" पञ्च० म० प्र० गा० ४० पृ० १४० कर्मप्र० यशो० पृ० १२ । - पृ० ३. पं० २१. 'उक्तशेषाणाम्' - पञ्च० प्र० गा० १८ पृ० १२५ ।
पृ० ३. पं० २१. 'देशघातीनि' - "इतरो देशघाती देशघातित्वात् स्वविषयैकदेशघाति। त्वाद् भवति । स च विविधबहुच्छिद्रभृतः, तद्यथा-कश्चिद्वंशदलनिर्मापितकट इवातिस्थूरच्छिद्रशतसंकुलः, कश्चित्कम्बल इव मध्यमविवरशतसंकुलः, कोऽपि पुनस्तथाविधमसृणवासोवदतीवसक्ष्मविवरसंवृतः। तथा स्वरूपतोऽल्पस्नेहा स्तोकस्नेहाविभागसमुदायरूपः। अविमलश्च नैर्मल्यरहितश्च ।" पञ्च० म० प्र० गा० ४१ पृ० १४१ ।
पृ०.३. पं० २२. 'चतु:स्थानक' - "इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमः, 10 अशुभप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः । वक्ष्यते च-"घोसाडइनिम्बुवमो, असु
भाण सुभाण खीरखण्डुवमो” । क्षीरादिरसश्च स्वाभाविक एकस्थानक उच्यते द्वयोस्तु कर्षयोरावर्त्तने कृते सति योऽवशिष्यते एकः कर्षः स द्विस्थानकः, त्रयाणां कर्षाणामावर्त्तने कृते
सति य एकः कर्षोऽवशिष्टः स त्रिस्थानकः, चतुर्णां कर्षाणामावर्त्तने कृते सत्युद्धरितो य . एकः कर्षः स चतुःस्थानकः । एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकप्रसृत्यञ्जलि15 करककुम्भद्रोणादिप्रक्षेपान्मन्दमन्दतरादिभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि । तथा कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः, प्रत्येकमनन्तभेदभिन्नाश्च । कर्मणां चैकस्थानकरसाद् द्विस्थानकादयो रसा यथोत्तरमनन्तगुणाः ।" पञ्च० म० प्र० गा० २९ पृ० १३३ । - पृ० ३. पं० २४. 'तत्र ज्ञानावरण' - "संप्रति यासां प्रकृतीनां यावन्ति बन्धमधिकृत्य
रसस्पर्धकानि संभवन्ति तासां तावन्ति निर्दिदिक्षुराह - आवरणं ज्ञानावरणं दर्शनावरणं ० च, तत् कथम्भूतमित्याह - असर्वघ्नम् , सर्वं ज्ञानं दर्शनं वा हन्तीति सर्वप्नं सर्वघाति, तच्चेह प्रक्रमात् केवलज्ञानावरणं केवलदर्शनावरणं च, न विद्यते सर्वघ्नं यत्र तदसर्वघ्नं केवलज्ञानावरणकेवलदर्शनावरणरहितमित्यर्थः । एतदुक्तं भवति- केवलज्ञानावरणवर्जानि शेषाणि मति
श्रुतावधिमनःपर्यायज्ञानावरणलक्षणानि चत्वारि ज्ञानावरणानि, केवलदर्शनावरणवर्जानि .. शेषाणि चक्षुरचक्षुरवधिदर्शनावरणरूपाणि त्रीणि दर्शनावरणानि, तथा 'पुंसंजलनंतराय'त्ति25 पुरुषवेदः, चत्वारः संज्वलनाः क्रोधादयः, पञ्चविधमन्तरायं दानान्तरायादि, सर्वसंख्यया
सप्तदशप्रकृतयश्चतुःस्थानपरिणताः एकद्वित्रिचतुःस्थानकरसपरिणताः प्राप्यन्ते, बन्धमधिकृत्यासामेकस्थानको द्विस्थानकस्त्रिस्थानकश्चतुःस्थानको वा रसः प्राप्यते इति भावः । तत्र
यावन्नाद्यापि श्रेणिं प्रतिपद्यन्ते जन्तवस्तावदासां सप्तदशानामपि प्रकृतीनां यथाध्यवसाय.. सम्भवं द्विस्थानकं त्रिस्थानकं चतुःस्थानकं वा रसं बघ्नन्ति, श्रेणिं तु प्रतिपन्ना अनिवृत्तिबादअरसम्परायाद्धायाः संख्येयेषु भागेषु गतेषु सत्सु, ततः प्रभृत्येतासां प्रकृतीनामशुभत्वादत्यन्तं विशुद्धाध्यवसाययोगत एकस्थानकं रसं बध्नन्ति, तत एव बन्धमधिकृत्य चतुःस्थानपरिणताः प्राप्यन्ते । शेषास्तु सप्तदशव्यतिरिक्ताः शुभा अशुभा वा 'दुतिचउठाणाउत्ति'-बन्धमधिकृत्य द्विस्थानकरसाखिस्थानकरसाश्चतुःस्थानकरसाश्च, न तु कदाचनाप्येकस्थानकरसाः । कथमेतद. वसेयमिति चेत्, इह द्विधा प्रकृतयस्तद्यथा- शुभा अशुभाश्च । तत्राशुभप्रकृतीनामेकस्थानक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org