________________
पृ० ३. पं० २१.] टिप्पणानि ।
६३ नामनन्तभागप्नमाणानि स्पर्धकानि भवन्ति । तदेतत्समुदितमेकमुदयस्थानं भवति ।" राजवा० २.५।
"इह कर्मप्रायोग्यवर्गणान्तःपातिनः सन्तः कर्मपरमाणवो न तथाविधविशिष्टरसोपेता आसीरन् किन्तु प्रायो नीरसा एकस्वरूपाश्च । यदा तु जीवेन गृह्यन्ते तदानीं ग्रहणसमये एव तेषां काषायिकेणाध्यवसायेन सर्वजीवेभ्योऽपि अनन्तगुणा रसाविभागा आपद्यन्ते, ६ ज्ञानावरकत्वादिविचित्रस्वभावता च अचिन्त्यत्वात् जीवानां पुद्गलानां च शक्तेः । न चैतदनुपपन्नम् , तथादर्शनात् । तथाहि - शुष्कतृणादिपरमाणवोऽत्यन्तनीरसा अपि गवादिभिगृहीत्वा विशिष्टक्षीरादिरसरूपतया च परिणम्यन्ते इति ।” कर्मप्र० बन्धन० अनु० म० गा० २९ ।
"अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा अनन्ता वर्गणा एकं स्पर्धकम् । एकेन रसाविभागेनाभ्यधिकाः परमाणवो न प्राप्यन्ते । नापि द्वाभ्याम् । नापि त्रिभिः । नापि । संख्येयैः । नाप्यसंख्येयैः । नाप्यनन्तैः । किन्तु अनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरभ्यधिकाः प्राप्यन्ते । ततः तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकेन रसाविभागेनाधिकानां परमाणूनां समुदायो द्वितीया वर्गणा । द्वाभ्यां रसाविभागाभ्यामधिकानां परमाणूनां समुदायस्तृतीया वर्गणा । एवमेकैकरसाविभागवृद्ध्या वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततः तासां समुदायो द्वितीयं 15 स्पर्धकं । ततः पुनरप्यतः ऊर्ध्वमेकेन रसाविभागेनाभ्यधिकाः परमाणवो न प्राप्यन्ते । नापि द्वाभ्यां । नापि त्रिभिः । नापि संख्येयैः । नाप्यसंख्येयैः । नाप्यनन्तैः । किन्तु अनन्तानन्तैरेव सर्वजीवेभ्योनन्तगुणैः । ततः तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा । ततः पुनरप्यत ऊर्ध्वं यथोत्तरमेकैकरसाविभागवृद्ध्या द्वितीयादिका वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायस्तृतीयं स्पर्ध-28 कम् । एवं स्पर्धकानि तावद्वाच्यानि यावदभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि भवन्ति । तेषां समुदाय एकमनुभागबन्धस्थानम् । अनुभागबन्धस्थानं नामैकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपरमाणूनां रसस्पर्धकसमुदायपरिमाणम् ।” कर्मप्र० बन्धन अनु० म० गा० ३१। . पृ० ३. पं० १९. 'तत्र केवल' -पंच० प्र० गा० २९ पृ. १३३ । . पृ० ३. पं० २०. 'विंशतेः' - पंच० प्र० गा० १७ पृ० १२५ ।
पृ० ३. पं० २०. 'सर्वघातिनीनाम्' - “याः सर्वथा सर्वघातिरसस्पर्धकान्विताः ताः सर्वघातिन्यः । यास्तु देशघातिरसस्पर्धकान्वितास्ता देशघातिन्यः । प्रकारान्तरेण सर्वघातित्वं देशघातित्वं च प्रतिपादयति । स्वविषयो ज्ञानादिलक्षणो गुणः, तस्य यद् घातनं तस्य यो भेदो देशकात्यविषयः, तेन धातित्वं-सर्वघातित्वं देशघातित्वं च ज्ञेयम् । सर्वखविषय- ३ घातिन्यः सर्वघातिन्यः । स्वविषयैकदेशघातिन्यो देशघातिन्यः ।" पञ्च० प्र० म० गा० ३९ पृ० १४० कर्मप्र० यशो० पृ. ११।
पृ० ३. पं० २१. 'सर्वधातीन्येव' - "यः स्वविषयं ज्ञानादिकं सकलमपि घातयति स्वकार्यसाधनं प्रति असमर्थं करोति स रसः सर्वघाती भवति । स च ताम्रभाजनवनिश्छिद्रो घृतमिवातिशयेन स्निग्धः, द्राक्षावत्तनुकः-तनुप्रदेशोपचितः, स्फटिकाप्रहारवच्चातीव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org