________________
६६
[ पृ० ५. पं० ६
पूर्वोक्ता एव सप्तदश प्रकृतयश्चतुस्त्रिद्व्येकस्थानकरसाः उच्यन्ते, न शेषाः प्रकृतयः ? ।” पञ्च
म० प्र० गा० ५१ पृ० १४५ ।
ज्ञानबिन्दुप्रकरणस्य
-
"अत्र सूरिराह - जलरेखासमेऽपि जलरेखातुल्येऽपि कषाये संज्वलन लक्षण उदयभागते न केवलद्विकस्य केवलज्ञानावरणकेवलदर्शनावरणरूपस्यैकस्थानिको रसो भवति, कुतं ? $ इत्याह – यत् यस्मात् 'से' तस्य केवलद्विकस्य तनुकमपि सर्वजघन्यमध्यावरणं रसलक्षणं हु निश्चितं सर्वघाति भणितं तीर्थकरगणधरैः, सर्वजघन्योऽपि रसस्तस्य सर्वघाती भणित इति भावार्थः । सर्वघाती च रसो जघन्यपदेऽपि द्विस्थानक एव भवति नैकस्थानकः, ततो न केवलद्विकस्यैकस्थानरसबन्धसम्भवः ।” पञ्च० म० प्र० गा० ५२ पृ० १४५ ॥
1
पृ० ५. पं० ६. ‘पंचसंग्रहमूलटीकायाम् ' - मोहनीयस्योपशमभावे सति औपशमिक॥ सम्यक्त्व सर्व विरतिरूपौ गुणौ जीवस्य प्रादुर्भवतः । घातिकर्मणां क्षयोपशमभावे सति चारित्रादयो गुणाः प्रादुर्भवन्ति । आह - ज्ञानदर्शने परित्यज्य चारित्रादयो गुणाः किमिति अभिधीयन्ते ? । उच्यते- ज्ञानदर्शनयोस्तद्भावेऽवश्यम्भावित्वज्ञापनार्थं घातिकर्मप्रकृतिषु च कासुचिदपि क्षयोपशमभावाभावज्ञापनार्थं च चारित्रादयो गुणा अभिहिताः । तत्र मतिज्ञानावरणादिक्षयोपशमे सति मत्यादीनि चत्वारि ज्ञानानि । चक्षुदर्शनावरणादीनां क्षयो1 पशमे सति दर्शनत्रयम् । एवमन्तरायक्षयोपशमे सति दानादिपञ्चलब्धयो भवन्ति । मिथ्यात्वप्रथम कषायक्षयोपशमे वेदकसम्यक्त्वम् । द्वितीयकषायक्षयोपशमे देशविरतिचारित्रं तृतीयकषायक्षयोपशमे सर्वविरतिचारित्रमिति चारित्रादयो गुणाः ।" पंच० खो० प्र० गा०
२६ पृ० १३० ।
“तथा देशावरणोदये सत्यपि यो हन्तव्यविषयस्य देशप्रादुर्भावः स क्षायोपशमिको 20 भावः । आह – यद्येवं ततः सर्वघातिप्रदेशोदये मोहनीयस्य कथं क्षायोपशमिको भाव इति ? | उच्यते - ते हि प्रदेशा रसभावेनाप्रधाना यथासम्भवं देशघातिवेद्यमानरसान्तर्गताः स्वरूपमप्रकटयन्तो देशघातिरसप्राधान्यात् क्षायोपशमिकभावं जनयन्ति । एवं मनःपर्यायज्ञानचक्षुरवधिदर्शनानामपि भावना कार्या । मतिश्रुतज्ञानाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां सदैवोदयं प्रति देशघातिरसस्पर्धकानामेवोद्रयः ततो भावद्वयं भावितमेव ।” पञ्च० खो० प्र०
25 गा० ३० पृ० १३३ ।
30
“सम्प्रति यथौदयको भावः शुद्धो भवति, यथा च क्षयोपशमानुविद्धस्तथोपदर्शयति - अवधिज्ञानावरणप्रभृतीनां देशघातिनां कर्मणां सम्बन्धिषु सर्वघातिरसस्पर्द्धकेषु तथाविधविशुद्धाध्यवसाय विशेषबलेन निहतेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु तेषां मध्ये कतिपयरसस्पर्द्धकगतस्योदयावलिकाप्रविष्टस्यांशस्य क्षये, शेषस्य चोपशमे विपाकोदयविष्कम्भरूपे सति जीवस्यावधिमनः पर्यायज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिका जायन्ते प्रादुर्भवन्ति । किमुक्तं भवति ? यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघातीनि रसस्पर्द्धकानि विपाकोदयमागतानि वर्त्तन्ते तदा तद्विषय औदयिक एक एव भावः केवलो भवति, यदा तु देशघातिरसस्पर्द्धकानामुदयस्तदा तदुदयादौदयिको भावः कतिपयानां च देशघातिरसस्पर्द्धकानां सम्बन्धिन उदद्याव35 लिकाप्रविष्टस्यांशस्य क्षये, शेषस्य चानुदितस्योपशमे, क्षायोपशमिक इति क्षयोपशमानुविद्ध
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org