Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 162
________________ पृ० १. पं० २२.] टिप्पणानि । आवरिजा तेणं जीवो अजीवत्तणं पाविजा" इत्यादि वक्ष्यमाणप्रवचनप्रामाण्यात् । ततः तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दः प्रकाशः सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते । यथा धनपटलावृतसूर्यमन्दप्रकाशोऽपान्तरालावस्थितकटकुड्याद्यावरणविवरप्रदेशभेदतः ? । स च नानात्वं क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः स्वस्वक्षयोपशमानुसारेणाभिधानभेदमश्नुते । यथा । मतिज्ञानावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयोपशमजनितः श्रुतज्ञानमित्यादि । ततः आत्मस्वभावभूता ज्ञानस्याभिनिबोधिकादयो भेदाः । ते च प्रवचनोपदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसङ्ख्याः । ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं न विरुध्यते । न चैवमात्मस्वभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः । यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः। यथा सूर्यस्य धनपटलावृतस्य मन्द- 10 प्रकाशभेदाः कटकुड्याद्यावरणविवरभेदोपाधिसम्पादिताः । ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति ? । न खलु सकलघनपटलकटकुड्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदाः भवन्ति । उक्तं च - ___ "कडविवरागयकिरणा मेहंतरियस्स जह दिणेसस्स । ते कडमेहावगमे न होंति जह तह इमाई पि ॥" ततो यथा जन्मादयो भावा जीवस्यात्मभूताः अपि कर्मोपाधिसम्पादितसत्ताकत्वात् तद्भावे न भवन्ति, तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषभावः । उक्तं च "जमिह छउमत्थधम्मा जम्माईया न होति सिद्धाणं इय केवलीणमाभिणियोहाभावम्मि को दोसो ॥ इति ।" ___ नन्दी० म० पृ० ६६ A । पञ्च० म०प्र० पृ० १८ A । पृ० १ पं० २२ 'सुट्ठवि' - तुलना- "सुहृवि मेहसमुदए होति पभा चन्दसूराणं ।' बृहतू० गा० ७४ पृ० २ पं० ५ 'ये तु चिन्मात्राश्रय - वेदान्तग्रन्थेषु अज्ञानाश्रयत्वाविषयकं मुख्यतया 25 मतद्वयं दृश्यते । अज्ञानं ब्रह्माश्रितमेवेति एकम् , जीवाश्रितमेव तत् इत्यपरम् । सर्वज्ञात्ममुनिना स्वकीये संक्षेपशारीरकवार्तिके प्रथमं मतं समर्थितम् । द्वितीयं तु मण्डनमिश्रीयत्वेन निर्दिश्य तेनैव तत्रैव वार्तिके निरस्तम् । समर्थनपरा कारिका( १.३१९)चेयम् "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः॥" निरासपरा (२. १७४) चेयम् - "जीवन्मुक्तिगतो यदाह भगवान् सत्संप्रदायप्रभुः। जीवाज्ञानवचः तदीगुचितं पूर्वापरालोचनात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244