________________
पृ० १. पं० २२.]
टिप्पणानि । आवरिजा तेणं जीवो अजीवत्तणं पाविजा" इत्यादि वक्ष्यमाणप्रवचनप्रामाण्यात् । ततः तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दः प्रकाशः सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते । यथा धनपटलावृतसूर्यमन्दप्रकाशोऽपान्तरालावस्थितकटकुड्याद्यावरणविवरप्रदेशभेदतः ? । स च नानात्वं क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः स्वस्वक्षयोपशमानुसारेणाभिधानभेदमश्नुते । यथा । मतिज्ञानावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयोपशमजनितः श्रुतज्ञानमित्यादि । ततः आत्मस्वभावभूता ज्ञानस्याभिनिबोधिकादयो भेदाः । ते च प्रवचनोपदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसङ्ख्याः । ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं न विरुध्यते । न चैवमात्मस्वभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः । यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः। यथा सूर्यस्य धनपटलावृतस्य मन्द- 10 प्रकाशभेदाः कटकुड्याद्यावरणविवरभेदोपाधिसम्पादिताः । ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति ? । न खलु सकलघनपटलकटकुड्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदाः भवन्ति । उक्तं च -
___ "कडविवरागयकिरणा मेहंतरियस्स जह दिणेसस्स ।
ते कडमेहावगमे न होंति जह तह इमाई पि ॥" ततो यथा जन्मादयो भावा जीवस्यात्मभूताः अपि कर्मोपाधिसम्पादितसत्ताकत्वात् तद्भावे न भवन्ति, तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषभावः । उक्तं च
"जमिह छउमत्थधम्मा जम्माईया न होति सिद्धाणं इय केवलीणमाभिणियोहाभावम्मि को दोसो ॥ इति ।"
___ नन्दी० म० पृ० ६६ A । पञ्च० म०प्र० पृ० १८ A । पृ० १ पं० २२ 'सुट्ठवि' - तुलना- "सुहृवि मेहसमुदए होति पभा चन्दसूराणं ।' बृहतू० गा० ७४
पृ० २ पं० ५ 'ये तु चिन्मात्राश्रय - वेदान्तग्रन्थेषु अज्ञानाश्रयत्वाविषयकं मुख्यतया 25 मतद्वयं दृश्यते । अज्ञानं ब्रह्माश्रितमेवेति एकम् , जीवाश्रितमेव तत् इत्यपरम् । सर्वज्ञात्ममुनिना स्वकीये संक्षेपशारीरकवार्तिके प्रथमं मतं समर्थितम् । द्वितीयं तु मण्डनमिश्रीयत्वेन निर्दिश्य तेनैव तत्रैव वार्तिके निरस्तम् । समर्थनपरा कारिका( १.३१९)चेयम्
"आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।
पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः॥" निरासपरा (२. १७४) चेयम् -
"जीवन्मुक्तिगतो यदाह भगवान् सत्संप्रदायप्रभुः। जीवाज्ञानवचः तदीगुचितं पूर्वापरालोचनात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org