SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ५४ ज्ञानबिन्दुप्रकरणस्य [पृ० १. पं० १४सकलघातिक्षयो निमित्तं केवलज्ञानस्य । मनःपर्यायज्ञानस्य तु आमर्पोषध्यादिलब्ध्युपेतस्य प्रमादलेशेनापि अकलङ्कितस्य विशिष्टो विशिष्टाध्यवसायानुगतोऽप्रमादः 'तं संजयस्स सब्व. पमायरहितस्स विविहरिद्धिमतो' इति वचनप्रामाण्यात् । अवधिज्ञानस्य पुनः तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमनिबन्धनक्षयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं 5 तञ्चाग्रे वक्ष्यते । उक्तं च "नत्तेगसहावत्तं ओहेण विसेसओ पुण असिद्धं । एगंततस्सहावत्तणओ कह हाणिवुड्डीओ ॥ जं अविचलियसहावे तत्ते एगंततस्सहावत्तं । न य तं तहोवलद्धा उकरिसावगरिसविसेसा ॥ तम्हा परिथूराओ निमित्तभेयाओ समयसिद्धाओ। उववत्तिसंगओ च्चिय आभिणिबोहाइओ भेओ ॥ घाइक्खओ निमित्तं केवलनाणस्स वनिओ समए । मणपज्जवनाणस्स उ तहाविहो अप्पमाओ त्ति ॥ ओहिनाणस्स तहा अणिदिएसुं पि जो खओवसमो। मइसुयनाणाणं पुण लक्खणभेयादिओ भेओ ॥" यदप्युक्तम् - 'ज्ञेयभेदकृतमित्यादि' तदप्यनभ्युपगमतिरस्कृतत्वाद् दुरापास्तप्रसरम् । न हि वयं ज्ञेयभेदमात्रतो ज्ञानस्य भेदमिच्छामः । एकेनाप्यवग्रहादिना बहुबहुविधवस्तुग्रहणो. पलम्भात् । यदपि च प्रत्यपादि-'प्रतिपत्तिप्रकारभेदकृत' इत्यादि तदपि न नो बाधामाधातुमलम् । 20 यतस्ते प्रतिपत्तिप्रकाराः देशकालादिभेदेनानन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिबोधिकादीन् जातिभेदानतिक्रामन्ति । ततः कथमेकस्मिन् अनेकभेदभाव. प्रसङ्गः ? । उक्तं च "न य पडिवत्तिविसेसा एगंमि य णेगमेयभावे वि । जं ते तहा विसिहे न जाइभेए विलंघेइ ॥" 28 यदप्यवादीद् - 'आवार्यापेक्षं हि आवारकम्' इत्यादि तदपि न नो मनोबाधायै । यतः परिस्थूनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः ततस्तदपेक्षमावारकमपि तथा भिद्यमानं न युष्मादृशदुर्जनवचनीयतामास्कन्दति । एवमुत्तेजितो भूयः सावष्टम्भं परः प्रश्नयति-ननु परिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनिबोधिकादयो भेदा ज्ञानस्यास्मभूता उतानात्मभूताः । किश्चातः । उभयथापि दोषः । तथाहि-यद्यात्मभूतास्ततः क्षीणा10 वरणेऽपि तद्भावप्रसङ्गः । तथा च असर्वज्ञत्वं प्रागुक्तनीत्या तस्यापद्यते । अथानात्मभूताः, तर्हि न ते पारमार्थिकाः, कथमावार्यापेक्षो वास्तवः आवारकभेदः ? । तदपि न मनोरमम् । सम्यग्वस्तुतत्त्वापरिज्ञानाद् । इह हि सकलघनपटलविनिर्मुक्तशारददिनमणिरिव समन्ततः समस्तवस्तुस्तोमप्रकाशनैकस्वभावो जीवः । तस्य च तथाभूतः स्वभावः केवलज्ञानमिति व्यपदिश्यते । स च यद्यपि सर्वघातिना केवलज्ञानावरणेन आक्रियते तथापि तस्यानन्ततमो 3 भागो नित्योद्घाटित एव "अक्खरस्स अणंतो भागो निचुग्याडिओ । जइ पुण सो वि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy