________________
पृ० १. पं० १७.]
टिप्पणानि । अथ स्वभावत एवाभिनिबोधिकादिको ज्ञानस्य भेदो, न च स्वभावः पर्यनुयोगमश्नुते । न खलु किं दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति । अहो ! महती महीयसो भवतः शेमुषी । ननु यदि स्वभावत एव आभिनिबोधादिको ज्ञानस्य भेदः, तर्हि भगवतः सर्वज्ञत्वहानिप्रसङ्गः। तथाहि - ज्ञानमात्मनो धर्मः। तस्य चाभिनिबोधादिको भेदः स्वभावत एव व्यवस्थितः क्षीणावरणस्यापि तद्भावप्रसङ्गः । सति च तद्भावे अस्मादृशस्येव भगवतोऽपि असर्वज्ञत्वमापद्यते । केवलज्ञानभावतः समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमिति चेत् । ननु यदा केवलोपयोगसंभवस्तदा तस्य भवतु भगवतः सर्वज्ञत्वं यदा तु आभिनिबोधिकादिज्ञानोपयोगसंभवः तदा देशतः परिच्छेदसंभवात् अस्मादृशस्येव तस्यापि बलादेवासर्वज्ञत्वमापद्यते । न च वाच्यम् - तस्य तदुपयोग एव न भविष्यति, आत्मस्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात् , केवलज्ञानान्तरं केवलदर्शनोपयोगवत् । ततः 10 केवलज्ञानकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्वज्ञत्वमापद्यते । तच्च विरुद्धमतोऽनिष्टमिति । आह च
"नत्तेगसहावत्ते आभिणिबोहाइ किंकओ भेदो। नेयविसेसाओ चे न सव्वविस जओ चरिमं ॥ अह पडिवत्तिविसेसा नेगंमि अणेगमेयभावाओ। आवरणविभेओ वि हु सभावभेयं विणा न भवे ॥ तम्मि य सइ सव्वेसिं खीणावरणस्स पावई भावो । तद्धम्मत्ताउ च्चिय जुत्तिविरोहा स चाणिहो । अरहावि असव्वन्नू आभिणिबोहाइभावओ नियमा।
केवलभावाओ चे सव्वण्णू नणु विरुद्धमिणं ॥" तस्माद् इदमेव युक्तियुक्तं पश्यामो यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिज्ञानं तावत् सकलमप्येकम , तच्चासकलसंज्ञितम् , अशेषवस्तुविषयत्वाभावात् । अपरं च केवलिनः । तच्च सकलसंज्ञितमिति द्वावेव भेदौ । उक्तं च
"तम्हा अवग्गहाओ आरब्भ इहेगमेव नाणं ति ।
जुत्तं छउमस्सासकलं इयरं च केवलिणो ॥" अत्र प्रतिविधीयते । तत्र यत्तावदुक्तं- 'सकलमपीदं ज्ञानं ज्ञत्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधादिको भेद इति तत्र ज्ञप्त्येकस्वभावता किं सामान्यतो भवता अभ्युपगम्यते विशेषतो वा ? । तत्र न तावदाद्यः पक्षः क्षितिमाधत्ते सिद्धसाध्यतया तस्य बाधकत्वायोगात् । बोधस्वरूपसामान्यापेक्षया हि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव । ततः का नो हानिरिति । अथ द्वितीयपक्षः । तदयुक्तम् । असिद्धत्वात् । न हि नाम विशे- 30 षतो विज्ञानमेकमेवोपलभ्यते प्रतिप्राणि स्वसंवेदनप्रत्यक्षेणोत्कर्षापकर्षदर्शनात् , अथ यात्कर्षापकर्षमात्रभेददर्शनात् ज्ञानभेदः तर्हि तावुत्कर्षापकर्षों प्रतिप्राणि देशकालाद्यपेक्षया शतसहस्रशो भिद्यते । ततः कथं पञ्चरूपता ? । नैष दोषः। परिस्थूरनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात् । तथाहि --
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org