________________
५२
ज्ञानबिन्दुप्रकरणस्य [पृ० १. पं० १५उच्यते-इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद् यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरुपजायते । सा च कचित्कदाचित् कथञ्चित् भवतीत्यनेकप्रकारा, तथा आत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते । सा च कचित्कदाचित् कथञ्चिदित्यनेकप्रकारा । उक्तं च -
"मलविद्धमणेर्व्यक्तिर्यथानेकप्रकारतः।
कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥" ४ । सा धानेकप्रकारता मति श्रुतादिभेदेनावसेया । ततो यथा मरकतादिमणेरशेषमलापगम10 संभवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति । तथाचोक्तम्- "यथा जात्यस्य रत्नस्य निःशेषमलहानितः ।
स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥" । ततो मत्यादिनिरपेक्षं केवलज्ञानम् ।...... . ननु सकलमपि इदं ज्ञानं ज्ञप्त्येकस्वभावं ततो ब्रत्येकखभावत्वाविशेषे किंकृत एष आभिनिबोधकादिभेदः ।
ज्ञेयभेदकृत इति चेत्-तथाहि-वार्तमानिक वस्तु आभिनिबोधिकज्ञानस्य ज्ञेयम् । त्रिकालसाधारणः समानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य; रूपिद्रव्याण्यवधिज्ञानस्य; 20 मनोद्रव्याणि मनःपर्यायज्ञानस्य; समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य । तदेतदसमीचीनम् । एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तेः । तथाहि - ज्ञेयभेदात् ज्ञानस्य भेदः । यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकादिज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गात् , अविषयत्वात् । तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिबोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाऽप्रहणात् । न 25 चैतदिष्टमिति -- अथोच्येत-प्रतिपत्तिप्रकारभेदतः आभिनिबोधिकादिभेदः । तथाहि-न यादृशी प्रतिपत्तिराभिनिबोधिकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्तु अन्यादृशी । एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यम् । ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः । तदप्ययुक्तम् । एवं सति एकस्मिनपि ज्ञानेऽनेकभेदप्रसक्तेः । तथाहि-तत्तद्देशकालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं ० प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते । तन्नैषोऽपि पक्षः श्रेयान् । ... स्यादेतत् - अस्त्यावारकं कर्म, तच्चानेकप्रकारम् । ततः तद्भेदात् तदावार्य ज्ञानमप्यनेकतां प्रतिपद्यते । ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाभिधानात् । ततो ज्ञानमपि पञ्चधा प्ररूप्यते । तदेतदतीव युक्त्यसङ्गतम् । यत आवार्यापेक्षमावारकम् , अत आवार्यभेदादेव तद्भेदः । आवायं च ज्ञप्तिरूपापेक्षया सकलमपि एकरूपं, ततः कथमावारकस्य पश्चरूपता ? । येन तद्भेदात् ज्ञानस्यापि पञ्चविधो भेदः उद्गीर्येत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org