Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
ज्ञान बिन्दुप्रकरणम् ।
$१०४. युगपदुपयोगद्वयाभ्युपगमवादोऽयम् - मनः पर्यायज्ञानमन्तः पर्यवसानं यस्य स तथा ज्ञानस्य दर्शनस्य च विश्लेषः पृथग्भाव इति साध्यम् । अत्र च छद्मस्थोपयोगत्वं तुर्द्रष्टव्यः । तथा च प्रयोगः - चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि, छद्मस्थोपयोगात्मकज्ञानत्वात् श्रुतमनः पर्यायज्ञानवत् । वाक्यार्थविषये श्रुत"ज्ञाने, मनोद्रव्यविशेषालम्बने मनःपर्यायज्ञाने चादर्शनस्वभावे मत्यवैधिजाद्दर्शनोपयोगाद्भिन्नकालत्वं प्रसिद्धमेवेति टीकाकृतः ।
$१०५. दर्शनत्रयपृथक्कालत्वस्य कुत्रापि एकस्मिन्नसिसाधयिषितत्वात् स्वदर्शनपृथक्कालत्वस्य च सिसाधयिषितस्य उक्तदृष्टान्तयोरभावात् - सावरणत्वं हेतुः, व्यतिरेकी च प्रयोगः, तज्जन्यत्वं वा हेतुः यद्यजन्यं तत्ततः पृथक्कालमिति सामान्यव्याप्तौ यथा 10 दण्डात् घट इति च दृष्टान्त इति तु युक्तम् ।
३४
15
$१०७, अयमभिप्राय आगमविरोधीति केषाञ्चिन्मतम्, तानधिक्षिपन्नाह - "केई भांति जइया जाणइ तइया ण पासइ जिणोति । सुत्तमवलंबमाणा तित्थयरासायणा भीरू ॥" [ सम्मति० २।४ ]
१०८. केचिजिनभद्रानुयायिनो भणन्ति - 'यदा जानाति तदा न पश्यति जिनः " इति । सूत्रम् - "केवली णं भंते इमं रयणप्पभं पुढविं आयारेहिं पमाणेहिं हेऊहिं संठाणेहिं 20 परिवारेहिं जं समयं जाणइ णो तं समयं पासइ ? । हंता गोयमा ! केवलीणं" [ प्रज्ञापना पद ३० सू० ३१४ ] इत्यादिकमवलम्बमानाः ।
९१०६. केवलज्ञानं पुनर्दर्शनं दर्शनोपयोग इति वा ज्ञानं ज्ञानोपयोग इति वा समानं तुल्यकालं तुल्यकालीनोपयोगद्वयात्मकमित्यर्थः । प्रयोगश्च - केवलिनो ज्ञानदर्शनोपयोगावेककालीनौ, युगपदाविर्भूतस्वभावत्वात्, यावेवं तावेवम्, यथा रवेः प्रकाशतापौ । केवलज्ञानदर्शनयोः क्रमवादस्य खण्डनम् -
25
$१०९. अस्य च सूत्रस्य किलायमर्थस्तेषामभिमतः - केवली सम्पूर्णबोधः । णमिति वाक्यालङ्कारे । भंते इति भगवन् । इमां रत्नप्रभामन्वर्थाभिघानां पृथ्वीमाकारैः समनिम्नोन्नतादिभिः, प्रमाणैर्दैर्घ्यादिभिः, हेतुभिः अनन्तानन्तप्रदेशिकैः स्कन्धः, संस्थानैः परिमण्डलादिभिः, परिवारैर्घनोदधिवलयादिभिः । 'जं समयं णो तं समयमिति' च "कालाध्वनोरत्यन्तसंयोगे" [पा० २.३.५] इति द्वितीया सप्तमीबाधिका, तेन यदा जानाति न तदा पश्यति इति भावः । विशेषोपयोगः सामान्योपयोगान्तरितः, सामान्योपयोगच विशेषोपयोगान्तरितः, तत्स्वाभाव्यादिति प्रश्नार्थः । उत्तरं पुनः - हंता, गोयमेत्यादिकं प्रश्नानुमोदकं गौतमेति गोत्रेणामंत्रणं प्रश्नानुमोदनार्थम् । पुनस्तदेव सूत्रमुच्चारणीयम् । ' हेतुप्रश्नस्य चात्र सूत्रे उत्तरम् - " सागारे से नाणे हवइ अणागारे से दंसणे" [ प्रज्ञापना पद ३० सू० ३१४ ] इति । साकारं विशेषावलम्बि अस्य केवलिनो ज्ञानं भवति,
30
१ ये वा दर्श' त । भवइ त ।
Jain Education International
२ 'वधिज्ञानदर्श' अब । ३ दकं हन्तेत्यन्निमनप्रकारेण गौत° त । ४ नाणे
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/07314bc3545c55faeebbc16ee603daf32096fdaf622415d105157fabbaa7534c.jpg)
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244