SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ज्ञान बिन्दुप्रकरणम् । $१०४. युगपदुपयोगद्वयाभ्युपगमवादोऽयम् - मनः पर्यायज्ञानमन्तः पर्यवसानं यस्य स तथा ज्ञानस्य दर्शनस्य च विश्लेषः पृथग्भाव इति साध्यम् । अत्र च छद्मस्थोपयोगत्वं तुर्द्रष्टव्यः । तथा च प्रयोगः - चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि, छद्मस्थोपयोगात्मकज्ञानत्वात् श्रुतमनः पर्यायज्ञानवत् । वाक्यार्थविषये श्रुत"ज्ञाने, मनोद्रव्यविशेषालम्बने मनःपर्यायज्ञाने चादर्शनस्वभावे मत्यवैधिजाद्दर्शनोपयोगाद्भिन्नकालत्वं प्रसिद्धमेवेति टीकाकृतः । $१०५. दर्शनत्रयपृथक्कालत्वस्य कुत्रापि एकस्मिन्नसिसाधयिषितत्वात् स्वदर्शनपृथक्कालत्वस्य च सिसाधयिषितस्य उक्तदृष्टान्तयोरभावात् - सावरणत्वं हेतुः, व्यतिरेकी च प्रयोगः, तज्जन्यत्वं वा हेतुः यद्यजन्यं तत्ततः पृथक्कालमिति सामान्यव्याप्तौ यथा 10 दण्डात् घट इति च दृष्टान्त इति तु युक्तम् । ३४ 15 $१०७, अयमभिप्राय आगमविरोधीति केषाञ्चिन्मतम्, तानधिक्षिपन्नाह - "केई भांति जइया जाणइ तइया ण पासइ जिणोति । सुत्तमवलंबमाणा तित्थयरासायणा भीरू ॥" [ सम्मति० २।४ ] १०८. केचिजिनभद्रानुयायिनो भणन्ति - 'यदा जानाति तदा न पश्यति जिनः " इति । सूत्रम् - "केवली णं भंते इमं रयणप्पभं पुढविं आयारेहिं पमाणेहिं हेऊहिं संठाणेहिं 20 परिवारेहिं जं समयं जाणइ णो तं समयं पासइ ? । हंता गोयमा ! केवलीणं" [ प्रज्ञापना पद ३० सू० ३१४ ] इत्यादिकमवलम्बमानाः । ९१०६. केवलज्ञानं पुनर्दर्शनं दर्शनोपयोग इति वा ज्ञानं ज्ञानोपयोग इति वा समानं तुल्यकालं तुल्यकालीनोपयोगद्वयात्मकमित्यर्थः । प्रयोगश्च - केवलिनो ज्ञानदर्शनोपयोगावेककालीनौ, युगपदाविर्भूतस्वभावत्वात्, यावेवं तावेवम्, यथा रवेः प्रकाशतापौ । केवलज्ञानदर्शनयोः क्रमवादस्य खण्डनम् - 25 $१०९. अस्य च सूत्रस्य किलायमर्थस्तेषामभिमतः - केवली सम्पूर्णबोधः । णमिति वाक्यालङ्कारे । भंते इति भगवन् । इमां रत्नप्रभामन्वर्थाभिघानां पृथ्वीमाकारैः समनिम्नोन्नतादिभिः, प्रमाणैर्दैर्घ्यादिभिः, हेतुभिः अनन्तानन्तप्रदेशिकैः स्कन्धः, संस्थानैः परिमण्डलादिभिः, परिवारैर्घनोदधिवलयादिभिः । 'जं समयं णो तं समयमिति' च "कालाध्वनोरत्यन्तसंयोगे" [पा० २.३.५] इति द्वितीया सप्तमीबाधिका, तेन यदा जानाति न तदा पश्यति इति भावः । विशेषोपयोगः सामान्योपयोगान्तरितः, सामान्योपयोगच विशेषोपयोगान्तरितः, तत्स्वाभाव्यादिति प्रश्नार्थः । उत्तरं पुनः - हंता, गोयमेत्यादिकं प्रश्नानुमोदकं गौतमेति गोत्रेणामंत्रणं प्रश्नानुमोदनार्थम् । पुनस्तदेव सूत्रमुच्चारणीयम् । ' हेतुप्रश्नस्य चात्र सूत्रे उत्तरम् - " सागारे से नाणे हवइ अणागारे से दंसणे" [ प्रज्ञापना पद ३० सू० ३१४ ] इति । साकारं विशेषावलम्बि अस्य केवलिनो ज्ञानं भवति, 30 १ ये वा दर्श' त । भवइ त । Jain Education International २ 'वधिज्ञानदर्श' अब । ३ दकं हन्तेत्यन्निमनप्रकारेण गौत° त । ४ नाणे For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy