SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । अनाकारमतिक्रान्तविशेष सामान्यालम्बिदर्शनम् । न चानेकप्रत्ययोत्पत्तिरेकदा निरावरणस्यापि, तत्स्वाभाव्यात् । नहि च चक्षुानकाले श्रोत्रज्ञानोत्पत्तिरुपलभ्यते । न च आवृतत्वात्तदा तदनुत्पत्तिः, स्वसमयेऽपि अनुत्पत्तिप्रसङ्गात् । न च अणुना मनसा यदा यदिन्द्रियसंयोगस्तदा तज्ज्ञानमिति क्रमः परवायभिमतोऽपि युक्तिमान् , सर्वाङ्गीणसुखोपलम्भाधुपपत्तये मनोवर्गणापुद्गलानां शरीरव्यापकत्वंकल्पनात् , सुषुप्तौ ज्ञानानुत्पत्तये । त्वमनोयोगस्य ज्ञानसामान्ये हेतुत्वेन रासनकाले त्वाचरासनोभयोत्पत्तिवारणस्य इत्थमप्यसम्भवाच । ततो युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणं नान्यत् । सन्निहितेऽपि च यात्मके विषये सर्वविशेषानेव केवलज्ञानं गृह्णाति, सर्वसामान्यानि च केवलदशेनमिति खभाव एवानयोरिति । ६११०. एते च व्याख्यातारस्तीर्थकराशातनाया अभीरवः, तीर्थकरमाशातयन्तो न 10 विभ्यतीति यावत् । एवं हि निःसामान्यस्य निर्विशेषस्य वा वस्तुनोऽभावेन न किञ्चिजानाति केवली न किञ्चित्पश्यति इत्यधिक्षेपस्यैव पर्यवसानात् । न च अन्यतरमुख्योपसर्जनविषयतामपेक्ष्योभयग्राहित्वेऽपि उपयोगक्रमाविरोधः, मुख्योपसर्जनभावेन उभयग्रहणस्य क्षयोपशमविशेषप्रयोज्यत्वात् , केवलज्ञाने छद्मस्थज्ञानीययावद्विषयतोपगमे अवग्रहादिसङ्कीर्णरूपप्रसङ्गात् । उक्तसूत्रस्य तु न भवदुक्त एवार्थः किन्तु अयं - केवलीमा रत्नप्रभां 15 पृथिवीं यैराकारादिभिः समकं तुल्यं जानाति, न तैराकारादिभिस्तुल्यं पश्यतीति किमेवं ग्राह्यम् ? । एवमित्यनुमोदना । ततो हेतौ पृष्टे सति तत्प्रतिवचनं भिन्नालम्बनप्रदर्शक तज्ज्ञानं साकारं भवति यतो दर्शनं पुनरनाकारमित्यतो भिन्नालम्बनावेतौ प्रत्ययाविति प्रत्यपादीति टीकाकृतः। अत्र यद्यपि 'जं समयं' इत्यत्र 'ज' इति अम्भावः प्राकृतलक्षणात्, यत्कृतमित्यत्र 'जं कयं' इति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृती- 10 यान्तपदवाच्यैराकारादिभिः लुप्ततृतीयान्तसमासस्थयत्पदार्थस्य समकपदार्थस्य च अन्यूनानतिरिक्तधर्मविशिष्टस्य रत्नप्रभायां भिन्नलिङ्गत्वादनन्वय इति 'यत् समकम्' इत्यादि क्रियाविशेषणत्वेन व्याख्येयम् । रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्तविषयताकदर्शनवान् केवलीति फलितोऽर्थः । यदि च तादृशस्य विशिष्टदर्शनस्य निषेध्यस्याप्रसिद्धेर्न तनिषेधः, "असतो णत्थि णिसेहो" 25 [विशेषा० गा० १५७४ ] इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा क्रियाप्रधानमाख्यातमिति वैयाकरणनयाश्रयणेन रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताक ज्ञानं न तादृशं केवलिकर्तृकं दर्शनमित्येव बोधः, सर्वनयात्मके भगवत्प्रवचने यथोपपन्नान्यतरनयग्रहणे दोषाभावादिति तु वयमालोचयामः । केवलज्ञानदर्शनयोर्योगपद्येऽनुमानम् - ६१११. हेतुयोगपद्यादपि बलेन उपयोगयोगपद्यमापतति इत्याह - "केवलनाणावरणक्खयजायं केवलं जहा नाणं । तह दंसणं पि जुज्जइ णियआवरणक्खयस्संते ।" [ सन्मति० २।५] १ खस्यैव क त । २ °वानिति फलित।३ दृशविशित। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy