________________
ज्ञानबिन्दुप्रकरणम् । ११२. स्पष्टा, नवरं निजावरणक्षयस्यान्त इति दर्शनावरणक्षयस्यानन्तरक्षण इत्यर्थः। न च एकदोभयावरणक्षयेऽपि स्वभावहेतुक एव उपयोगक्रम इत्युक्तमपि साम्प्रतम् । एवं सति स्वभावेनैव सर्वत्र निर्वाहे कारणान्तरोच्छेदप्रसङ्गात् , कार्योत्पत्तिस्वभावस्य कारणेनेव तत्क्रमखभावस्य तत्क्रमेणैव निर्वाह्यत्वाच्च ।
११३. एतेन-सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगेवावरणक्षयकार्यतावच्छेदकत्वादर्थतस्तदवच्छिन्नोपयोगद्वयसिद्धिः- इत्यपि अपास्तम् । तत्सिद्धावपि तत्क्रमासिद्धेरावरणद्वयक्षयकार्ययोः समप्राधान्येन अर्थगतेरप्रसराच्च । न च 'मतिश्रुतज्ञानावरणयोः एकदा क्षयोपशमेऽपि यथा तदुपयोगक्रमस्तथा ज्ञानदर्शनावरणयोर्युगपत्क्षयेऽपि केवलिन्युपयोगक्रमः स्यात्' इति शङ्कनीयम् । तत्र श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन, शान्दादौ 10 प्रत्यक्षादिसामग्र्याः प्रतिबन्धकत्वेन च तत्सम्भवात् । अत्र तु क्षीणावरणत्वेन परस्परकार्यकारणभावप्रतिबध्यप्रतिबन्धकभावाद्यभावेन विशेषात् । सर्वज्ञे ज्ञानदर्शनयोर्मिन्नकालत्वस्य निरास:६११४. एतदेवाह
"भण्णइ खीणावरणे, जह मइनाणं जिणे ण संभवइ ।
तह खीणावरणिजे विसेसओ दंसणं णस्थि ॥" [ सन्मति० २।६ ] ११५. भण्यते निश्चित्योच्यते क्षीणावरणे जिने यथा मतिज्ञानं मत्यादिज्ञानं अवग्रहादिचतुष्टयरूपं वा ज्ञानं न सम्भवति, तथा क्षीणावरणीये विश्लेषतो ज्ञानोपयोगकालान्यकाले दर्शनं नास्ति, क्रमोपयोगत्वस्य मत्याद्यात्मकत्वव्याप्यत्वात् सामान्यविशेषो
भयालम्बनक्रमोपयोगत्वस्य च अवग्रहाद्यात्मकत्वव्याप्यत्वात् , केवलयोः क्रमोपयोगत्वे 20 तत्त्वापत्तिरित्यापादनपरोऽयं ग्रन्थः । प्रमाणं तु-केवलदर्शनं केवलज्ञानतुल्यकालोत्पत्ति
कम् , तदेककालीनसामग्रीकत्वात् , तादृशकार्यान्तरवत् , इत्युक्ततर्कानुगृहीतमनुमानमेवेति द्रष्टव्यम्। केवलज्ञानदर्शनयोः क्रमवादे आगमविरोधः६११६. न केवलं क्रमवादिनोऽनुमानविरोधः, अपि त्वागमविरोधोऽपीत्याह
"सुत्तमि चेव साई-अपज्जवसियं ति केवलं वुत्तं ॥
सुत्तासायणभीरुहिं तं च दन्वयं होइ ॥" [सन्मति० २।७ ] ६११७. साद्यपर्यवसिते केवलज्ञानदर्शने सूत्रे प्रोक्ते, क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता ? । तेन सूत्राशातनाभीरुभिः क्रमोपयोगवादिभिः तदपि द्रष्टव्यम् । चोऽप्यर्थः । न केवलं 'केवली णं भंते इमं रयणप्पभं पुढविं' इत्याधुक्तसूत्र30 यथाश्रुतार्थानुपपत्तिमात्रमिति भावः । न च द्रव्यापेक्षयाऽपर्यवसितत्वम् , द्रव्यविषय
प्रश्नोत्तराश्रुतेः। न च- "अर्पितानर्पितसिद्धेः" [तत्त्वार्थ० ५.३१] इति तत्त्वार्थसूत्रानुरोधेन द्रव्यार्पणयाऽश्रुतयोरपि तयोः कल्पनं युक्तम् , अन्यथा पर्यायाणामुत्पादविगमात्मकत्वात् १ क्षयानन्तर त। २ तंपि दट्ठ त। ३ °तलं समाधेयं द्र त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org