________________
७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । भवतोऽपि कथं तयोरपर्यवसानता?-इति पर्यनुयोज्यम् , यद्धर्मावच्छिन्ने क्रमिकत्वप्रसिद्धिः, तद्धर्मावच्छिन्ने अपर्यवसितत्वान्वयस्य निराकासत्वात् , अन्यथा 'ऋजुत्ववक्रत्वे अपर्यवसिते' इति प्रयोगस्यापि प्रसङ्गात् । मम तु रूपरसात्मकैकद्रव्यवदक्रममाविभिन्नोपाधिकोत्पादविगमात्मकत्वेऽपि केवलिद्रव्यादव्यतिरेकतः तयोरपर्यवसितत्वं नानुपपन्नम् । अथ पर्यायत्वावच्छेदकधर्मविनिर्मोकेण शुद्धद्रव्यार्थादेशप्रवृत्तेः क्रमैकान्तेऽपि केवलयोर-5 पर्यवसितत्वमुपपत्स्यते, अत एव पर्यायद्रव्ययोरादिष्टद्रव्यपर्यायत्वं सिद्धान्ते गीयते, तत्तदवच्छेदकविनिर्मोकस्य विवक्षाधीनत्वादिति चेत् । किमयमुक्तधर्मविनिर्मोकस्तत्तत्पदार्थतावच्छेदकविशिष्टयोः अभेदान्वयानुपपत्त्या शुद्धद्रव्यलक्षणया, उत उक्तधर्मस्य विशेषणत्वपरित्यागेन उपलक्षणत्वमात्रविवक्षया? आधे आद्यपद एव लक्षणायां 'शुद्धद्रव्यं शुद्धात्मद्रव्यं वा अपर्यवसितम्' इत्येव बोधः स्यात् । सादित्वस्यापि तत्र अन्वयप्रवेशे तु ॥ 'केवलिद्रव्यं साद्यपर्यवसितम्' इत्याकारक एव । उभयपदलक्षणायां तु शुद्धद्रव्यविषयको निर्विकल्पक एव बोध इति 'केवलज्ञानदर्शने साद्यपर्यवसिते' इति बोधस्य कथमपि अनुपपत्तिः । अन्त्ये च केवलत्वोपलक्षितात्मद्रव्यमात्रग्रहणे तत्र सादित्वान्वयानुपपत्तिः, केवलिपर्यायग्रहणे च नवविधोपचारमध्ये पर्याये पर्यायोपचार एवाश्रयणीयः स्यादिति समीचीनं द्रव्यार्थादेशसमर्थनम् ! नियतोपलक्ष्यतावच्छेदकरूपाभावेऽपि संमुग्धोपलक्ष्य- 15 विषयकतादृशबोधस्वीकारे च 'पर्यायोऽपर्यवसितः' इत्यादेरपि प्रसक्तिः । द्रव्यार्थतया केवलज्ञानकेवलदर्शनयोः अपर्यवसितत्वाभ्युपगमे द्वितीयक्षणेऽपि तयोः सद्भावप्रसक्तिः, अन्यथा द्रव्यार्थत्वायोगात् । ६११८. तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह -
"संतंमि केवले दंसणम्मि नाणस्य संभवो णस्थि ।।
केवलनाणम्मि य दंसणस्स तम्हा अनिहणाई ॥" [ सन्मति० २।८] ६११९. स्वरूपतो द्वयोः क्रमिकत्वेऽन्यतरकालेऽन्यतराभावप्रसङ्गः, तथा च उक्तवक्ष्यमाणदूषणगणोपनिपातः, तस्मात् द्वावप्युपयोगौ केवलिनः स्वरूपतोऽनिधनावित्यर्थः । ग्रन्थकृताऽभेदपक्षस्योपन्यासः.१२०. इत्थं ग्रन्थकूदक्रमोपयोगद्वयाभ्युपगमेन क्रमोपयोगवादिनं पर्यनुयुज्य स्वपक्षं 25 दर्शयितुमाह
"दंसणनाणावरणक्खए समाणम्मि कस्स पुव्वयरो।
होज व सैमओप्पाओ हंदि दुवे णत्थि उवओगा ॥" [ सन्मति० २।९] ६१२१. सामान्यविशेषपरिच्छेदावरणापगमे कस्य प्रथमतरमुत्पादो भवेत् ?, अन्यतरोत्पादे तदितरस्याप्युत्पादप्रसङ्गात् , अन्यतरसामग्र्या अन्यतरप्रतिबन्धकत्वे च उभयो- 30 रप्यभावप्रसङ्गात् । “सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स" इति वचनप्रामाण्यात् प्रथमं केवलज्ञानस्य पश्चात् केवलदर्शनस्योत्पाद इति चेत्, न, एतद्वचनस्य लब्धि
१°कारे वा पत। २ पुव्वयर-सन्मति०। ३ समं उप्पाओ-सन्मति०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org