________________
३८
ज्ञानबिन्दुप्रकरणम् । योगपद्य एव साक्षित्वात् , उपयोगक्रमाक्रमयोरौदासीन्यात्, योगपद्येनापि निर्वाहेऽर्थाद्दर्शनेऽनन्तरोत्पत्त्यसिद्धेः, एकक्षणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकायुष्कयोः केवलिनोः क्रमिकोपयोगद्वयधाराया निर्वाहयितुमशक्यत्वाच ।
६१२२. अथ ज्ञानोपयोगसामान्ये दर्शनोपयोगत्वेन हेतुतेति निर्विकल्पकसमाधिरूपछद्म। स्थकालीनदर्शनात् प्रथमं केवलज्ञानोत्पत्तिः, केवलदर्शने केवलज्ञानत्वेन विशिष्य हेतुत्वाच्च द्वितीयक्षणे केवलदर्शनोत्पत्तिः, ततश्च क्रमिकसामग्रीद्वयसम्पत्त्या क्रमिकोपयोगद्वयधारानिर्वाह इति, एकक्षणन्यूनाधिकायुष्कयोस्त्वेकक्षणे केवलज्ञानोत्पत्त्यस्वीकार एव गतिरिति चेत् ; न, "दंसणपुव्वं नाणं" [ सन्मति० २।२२ ] इत्यादिना तथाहेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात् , उत्पन्नस्य केवलज्ञानस्य क्षायिकभावत्वेन नाशायोगाच्च । न च मुक्ति10 समये क्षायिकचारित्रनाशवदुपपत्तिः, क्षायिकत्वेऽपि तस्य योगस्थैर्यनिमित्तकत्वेन निमित्तनाशनाश्यत्वात् , केवलज्ञानस्य चानमित्तकत्वात् उत्पत्तौ ज्ञप्तौ चावरणक्षयातिरिक्तनिमित्तानपेक्षत्वेनैव तस्य स्वतन्त्रप्रमाणत्वव्यवस्थितेः, अन्यथा 'सापेक्षमसमर्थम्' इति न्यायात्तत्राप्रामाण्यप्रसङ्गात् । एतेन - केवलदर्शनसामग्रीत्वेन स्वस्यैव स्वनाशकत्वमिति केवलज्ञान
क्षणिकत्वम् - इत्यपि अपास्तम् , अनैमित्तिके क्षणिकत्वायोगात् , अन्यथा तत्क्षण एव 15 तत्क्षणवृत्तिकार्ये नाशक इति सर्वत्रैव सूक्ष्मणुसूत्रनयसाम्राज्यस्य दुर्निवारत्वादिति किमति
पल्लवितेन ? । नन्वियमनुपपत्तिः क्रमोपयोगपक्ष एवेत्यक्रमौ द्वावुपयोगौ स्तामित्याशङ्केते मल्लवादी, “भवेद्वा समयमेककालमुत्पादतयोः" इति । तत्रैकोपयोगवादी ग्रन्थकृत् सिद्धान्तयति 'हन्दि' ज्ञायतां द्वावुपयोगौ नैकदेति, सामान्यविशेषपरिच्छेदात्मकत्वात् केवलज्ञानस्य, यदेव ज्ञानं तदेव दर्शनमित्यत्रैव निर्भरः, उभयहेतुसमाजे समूहालम्बनो20 त्पादस्यैव अन्यत्र दृष्टत्वात् नात्र अपरिदृष्टकल्पनाक्लेश इति भावः । अभेदपक्षे एव सर्वज्ञतासंभवस्य समर्थनम् - $१२३. अस्मिन्नेव वादे केवलिनः सर्वज्ञतासम्भव इत्याह
"जइ सव्वं सायारं जाणइ एकसमएण सव्वण्णू ।
जुज्जइ सयावि एवं अहवा सव्वं न जाणाइ॥" [ सन्मति० २।१०] 23 ६१२४. यदि सर्व सामान्यविशेषात्मकं जगत् साकारं तत्तज्जातिव्यक्तिवृत्तिधर्मविशिष्टम्, साकारमिति क्रियाविशेषणं वा-निरवच्छिन्नतत्तजातिप्रकारतानिरूपिततत्तब्यक्तिविशेष्यतासहितं परस्परं यावद्रव्यपर्यायनिरूपितविपयतासहितं वा यथा स्यात्तथेत्यर्थः । अथवा इत्येतद्वैपरीत्ये सर्वं न जानाति सर्वं न जानीयादेकदेशोपयोगवर्तित्वात् मतिज्ञानिवदित्यर्थः । तथा च केवलज्ञानमेव केवलदर्शनमिति स्थितम् । 30 अव्यक्तदर्शनस्य केवलिन्यसंभवोपदर्शनम् - $ १२५. अव्यक्तत्वादपि पृथग्दर्शनं केवलिनि न सम्भवतीत्याह -
"परिसुद्धं सायारं अविअतं दंसणं अणायारं ।
ण य खीणावरणिज्जे जुज्जइ सुवियत्तमवियत्तं ॥" [ सन्मति० २।११] १°हेऽर्थादर्श त। २ विशेष्य हे अ। विशेषहे म्। ३ निर्वाह एक अब। ४ तत्र खत। ५ ते भवे. त। ६ °स्तयोस्तत्रै त। ७ °म्बनस्यैव त। ८ ज्ञानवदिमु अब।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org