________________
७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा ।
$१२६. ज्ञानस्य हि व्यक्तता रूपम् दर्शनस्य पुनरव्यक्तता । न च क्षीणावरणेऽर्हति व्यक्तताऽव्यक्तते युज्येते, ततः सामान्यविशेषज्ञेयसंस्पर्श्यभयैकस्वभाव एवायं केवलि - त्ययः । न च ग्राह्यद्वित्वात् ग्राहकद्वित्वमिति सम्भावनापि युक्ता, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः । विषयभेदकृतो न ज्ञानभेद इत्यभ्युपगमे तु दर्शनपार्थक्ये का प्रत्याशा ?, आवरणद्वयक्षयादुभयैकस्वभावस्यैव कार्यस्य सम्भवात् । न च एकस्वभावप्रत्ययस्य शीतोष्णस्पर्शवत् परस्परविभिन्नस्वभावद्वय विरोधः, दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदृत्तवत्स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्यविरोधात् । ज्ञानत्वदर्शनत्वधर्माभ्यां ज्ञानदर्शनयोर्भेदः, न तु धर्मिभेदेनेति परमार्थः । अत एव तदावरणभेदेऽपि स्याद्वाद एव । तदुक्तं स्तुतौ ग्रन्थकृतैव -
"चक्षुर्दर्शनविज्ञानं परमाण्वौष्ण्यरौक्ष्यवत् ।
तदावरणमप्येकं न वा कार्यविशेषतः ॥" [ निश्चय० ८ ] इति ।
६१२७. परमाणावुष्णरूक्षस्पर्शद्वय समावेशवच्चाक्षुषे ज्ञानत्वदर्शनत्वयोः समावेश इत्यर्थः । इत्थं च चाक्षुषज्ञानदर्शनावरण कर्मापि परमार्थत एकम्, कार्यविशेषत उपाधिभेदतो वा नैकमिति सिद्धम् । एवमवधिकेवलस्थलेऽपि द्रष्टव्यम् । तदाह
"चक्षुर्वद्विषयाख्यातिरवधिज्ञानकेवले ।
शेषवृत्तिविशेषात्तु ते मते ज्ञानदर्शने ॥" [ द्वा० १०.३० ] इति ।
१२८. चक्षुर्वच्चाक्षुषवद्विषयाख्यातिः स्पृष्टज्ञानाभावः अस्पृष्टज्ञाने इति यावत्, भावाभावरूपे वस्तुनि अभावत्वाभिधानमपि दोषानावहम् । शेषा वृत्तयोऽस्पृष्टज्ञानानि ताभ्यो विशेषः स्पृष्टताविशेषेण वक्ष्यमाणरीत्या स्पृष्टाविषयवृत्तित्वव्ययेन तस्मात्ते अवधवले ज्ञानपदेन दर्शनपदेन च वाच्ये इत्येतदर्थः । अभेदपक्षादन्यत्र ज्ञात- दृष्टभाषित्वाभावः -
$१२९. क्रमाक्रमोपयोगद्वयपक्षे भगवतो यदापद्यते तदाह"अद्दिट्ठे अण्णायं च केवली एव भासइ सया वि ।
Jain Education International
एगसमयम्मि हंदी वयणविगप्पो ण संभवइ ||" [ सन्मति ० २।१२ ] इति ।
१ परमाण्वौक्ष्ण्यमोक्षवत् (?) - निश्चय० । २ °मित्येकं - निश्चय० । प्राप्तम् । एव' त । ५ ° भावः भावा' त । ६ 'योsस्पष्टज्ञा' अब त ।
३९
-
For Private & Personal Use Only
६१३०. आद्यपक्षे ज्ञानकालेऽदृष्टम्, दर्शनकाले चाज्ञातम्, द्वितीयपक्षे च सामान्यां - 25 शेऽज्ञातं विशेषांशे चादृष्टम्, एवमुक्तप्रकारेण केवली सदा भाषते, ततः 'एकस्मिन् समये ज्ञातं दृष्टं च भगवान् भाषते' इत्येष वचनस्य विकल्पो विशेषो भवद्दर्शने न सम्भवतीति गृह्यताम् । न चान्यतरकालेऽन्यतरोपलक्षणात् उपसर्जनतया विषयान्तरग्रहणात् उक्तवचनविकल्पोपपत्तिः, एवं सति भ्रान्तच्छद्मस्थेऽपि तथाप्रयोगप्रसङ्गात् । यदा कदाचित् शृङ्गग्राहिकया ज्ञानदर्शनविषयस्यैव पदार्थस्य तद्बुद्धावनुप्रवेशादिति स्मर्तव्यम् ।
३ रणमपि पर° त । ४ मिति ७ स्पष्टता अब मु ।
10
15
20
30
www.jainelibrary.org