________________
ज्ञानबिन्दुप्रकरणम् । ६१३१. तथा च सर्वज्ञत्वं न सम्भवतीत्याह -
"अण्णायं पासंतो अद्दिटुं च अरहा वियाणंतो।
किं जाणइ किं पासइ कह सव्वण्णु ति वा होइ ॥" [ सन्मति० २।१३] ६१३२. अज्ञातं पश्यन् अदृष्टं च जानानः किं जानाति किं वा पश्यति ? । न 5 किञ्चिदित्यर्थः । कथं वा तस्य सर्वज्ञता भवेत् ? । न कथमपीत्यर्थः। समसंख्यकविषयकत्वेनापि केवलयोरैक्यम् - ६१३३. ज्ञानदर्शनयोर्विषयविधयैकसंख्याशालित्वादपि एकत्वमित्याह -
"केवलनाणमणंतं जहेव तह दंसणं पि पण्णत्तं ।
सागारग्गणाहि य णियमपरितं अनागारं ॥" [ सन्मति० २।१४] 10 ६१३४. योकत्वं ज्ञानदर्शनयोन स्यात् तदाऽल्पविषयत्वाद्दर्शनमनन्तं न स्यादिति “अणंते
केवलनाणे अणंते केवलदंसणे" इत्यागमविरोधः प्रसज्येत । दर्शनस्य हि ज्ञानाद्भेदे साकारग्रहणादनन्तविशेषवर्तिज्ञानादनाकारं सामान्यमात्रावलम्बि केवलदर्शनं यतो नियमेनैकान्तेनैव परीतमल्पं भवतीति कुतो विषयाभावादनन्तता । न च 'उभयोस्तुल्यविषयत्वाविशेषेऽपि मुख्योपसर्जनभावकृतो विशेषः' इति वाच्यम्, विशेषणविशेष्यभावेन तत्तन्नय15 जनितवैज्ञानिकसम्बन्धावच्छिन्नविषयतया वा तत्र कामचारात् । आपेक्षिकस्य च तस्यास्म
दादिबुद्धावेवाधिरोहात्। एतच्च निरूपिततत्त्वम् “जं जं जे जे भावे" [ आव० २८२] इत्यादिनियुक्तिगाथाया नयभेदेन व्याख्याद्वये अनेकान्तव्यवस्थायाम् अस्माभिः । अक्रमोपयोगद्वयवादी तु प्रकृतगाथायां साकारे यगृहणं दर्शनं तस्य नियमोऽवश्यंभावो यावन्तो विशेषास्तावन्त्यखण्डसखण्डोपाधिरूपाणि जातिरूपाणि वा सामान्यानीति हेतोस्तेनापरी20 तमनन्तमित्यकारप्रश्लेषेण व्याचष्टे । क्रमवादिकृतागमविरोधादिपरिहारस्य दूषणम् -
६१३५. क्रमवादे ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति यदुक्तं तत्राक्षेपमुक्य समाधत्ते
"भण्णइ जह चउनाणी जुज्जइ णियमा तहेव एवं पि ।
भण्णइ ण पंचनाणी जहेव अरहा तहेयं पि ॥" [सन्मति० २।१५] ६१३६. भण्यते आक्षिप्यते यथाक्रमोपयोगप्रवृत्तोऽपि मत्यादिचतुर्ज्ञानी तच्छक्तिसमन्वयादपर्यवसितचतुर्ज्ञानो ज्ञातदृष्टभाषी ज्ञाता द्रष्टा च नियमेन युज्यते । तथैतदपि एकत्ववादिना यदपर्यवसितत्वादि क्रमोपयोगे केवलिनि प्रेर्यते, तदपि सार्वदिककेवलज्ञानदर्शनशक्तिसमन्वया॑त् उपपद्यत इत्यर्थः । भण्यते अनोत्तरं दीयते-यथैवाहन्न पञ्चज्ञानी, ० तथैवैतदपि क्रमवादिना यदुच्यते - भेदतो ज्ञानवान् दर्शनवांश्च-तदपि न भवतीत्यर्थः । मत्याद्यावरणक्षयेऽपि एकदेशग्राहिणो मतिज्ञानादेरिव, दर्शनावरणक्षयेऽपि तादृशदर्शनस्य
१ किञ्चिदपीतिभावः कथं त। २ °पितं तत्त्वं मु। ३ °लिनि कथमिति प्रेत । ४ °यात् युज्यत इति । भ० त। ५ तादृशस्य दत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org