________________
केवलज्ञानदर्शनयोर्भेदाभेदचर्चा |
४.१
केवलिनि मेदेनानुपपत्तेरिति भावः । इयांस्तु विशेषः - यदभेदेनापि केवलज्ञाने दर्शनसंज्ञा सिद्धान्तसम्मता, न तु मतिज्ञानादिसंज्ञेति, तत्र हेतू अन्वर्थोपपत्त्यनुपपत्ती एव द्रष्टव्ये । अयं च प्रौढिवादः । वस्तुतः क्रमवादे यदा जानाति तदा पश्यति इत्यादेरनुपपत्तिरेव, आश्रयत्वस्यैवाख्यातार्थत्वात् । लब्धेस्तदर्थत्वे तु घटादर्शनवेलायामपि 'घटं पश्यति' इति प्रयोगप्रसङ्गात्, घटदर्शनलब्धेस्तदानीमपि विद्यमानत्वात् । 'चक्षुष्मान् सर्व पश्यति, न त्वन्धः' इत्यादौ त्वगत्या लब्धेर्योग्यताया वाख्यातार्थत्वमभ्युपगम्यत एव, न तु सर्वत्राप्ययं न्यायः, अतिप्रसङ्गात् । न च सिद्धान्ते विना निक्षेपविशेषम प्रसिद्धार्थे पदवृत्तिरवधार्यते, षट्षष्टिसागरोपमस्थितिकत्वादिकमपि मतिज्ञानादेर्लब्ध्यपेक्षयैवेति दुर्वचम्, एकस्या एव क्षयोपशमरूपलब्धेस्तावत्कालमनवस्थानात्, द्रव्याद्यपेक्षया विचित्रापरापरक्षयोपशमसन्तानस्यैव प्रवृत्त्युपगमात् । किन्तु एकजीवावच्छेदेन अज्ञानातिरि- । क्तविरोधिसामग्र्यसमवहितषट्षष्टिसागरोपमक्षणत्वव्याप्य स्वसजातीयोत्पत्तिकत्वे सति तदधिकक्षणानुत्पत्तिकेवसजातीयत्वरूपं तत् पारिभाषिकमेव वक्तव्यम्, एवमन्यदप्यूह्यम् । आवरणक्षयजत्वादिना केवलज्ञानदर्शनयोरैक्यम् -
10
७.
६१३७, क्रमेण युगपद्वा परस्परनिरपेक्षस्व विषय पर्यवसितज्ञानदर्शनोपयोगौ केवलिन्यसर्वार्थत्वात् मत्यादिज्ञानचतुष्टयवन्न स्त इति दृष्टान्तभावनापूर्वमाह -
"पण्णवणिज्जा भावा समत्तसुअनाणदंसणाविसओ । ओहिमणपज्जवाण य अण्णोष्णविलक्खणा विसओ ॥
Jain Education International
तम्हा चउविभागो जुज्जइ ण उ नाणदंसण जिणाणं । सयलमणावरणमणतमक्खयं केवलं जम्हा ||" [ सन्मति ० २।१६,१७ ] इति ।
९१३८, प्रज्ञापनीयाः शब्दाभिलाप्या भावा द्रव्यादयः समस्तश्रुतज्ञानस्य द्वादशाङ्गवा - 20 क्यात्मकस्य दर्शनाया दर्शनप्रयोजिकायास्तदुपजाताया बुद्धेः विषय आलम्बनम्, मतेरपि तएव शब्दावसिता विषया द्रष्टव्याः, शब्दपरिकर्मणा हितक्षयोपशमजनितस्य ज्ञानस्य यथोभावविषयस्य मतित्वात् मतिश्रुतयोर सर्वपर्यायसर्वद्रव्यविषयतया तुल्यार्थत्वप्रतिपादनाच्च, अवधिमनःपर्याययोः पुनरन्योन्यविलक्षणा भावा विषयः - अवधे रूपिद्रव्यमात्रम्, मनःपर्यायस्य च मन्यमानानि द्रव्यमनांसीत्य सर्वार्थान्येतानि । तस्मात् चतुर्णा मत्यादीनां विभागो युज्यते, तत्तत्क्षयोपशमप्रत्ययभेदात्, न तु जिनानां ज्ञानदर्शनयोः । 'नाणंसण त्ति' अविभक्तिको निर्देशः सूत्रत्वात् । कुतः पुनरेतदित्याह - यस्मात् केवलं सकलं परिपूर्णम् । तदपि कुत: ? । यतोऽनावरणम्, नहि अनावृतमसकलविषयं भवति । न च प्रदीपेन व्यभिचारः, यतोऽनन्तमनन्तार्थग्रहणप्रवृत्तम् । तदपि कुतः १ । यतोऽक्षयम्, क्षयो हि विरोधिसजातीयेन गुणेन स्यात्, तदभावे तस्याक्षयत्वम्, ततश्च अनन्तत्वमनवद्यमिति भावः । तस्मात् अक्रमोपयोगद्वयात्मक एक एव केवलोपयोगः । तत्रैकत्वं व्यक्त्या, द्वयात्मकत्वं च नृसिंहत्ववदांशिकजात्यन्तररूपत्वमित्येके । माषे स्निग्धोष्णत्ववद्वयाप्य
१ । दुर्वचं क्षयोपशमरूपाया एकस्या एव लब्धे त । २ स्वस्वसजा त । ३ तीयगुणे त ।
ज्ञा० ६
For Private & Personal Use Only
15
25
30
www.jainelibrary.org