________________
४२
ज्ञानबिन्दुप्रकरणम् । वृत्तिजातिद्वयरूपत्वमित्यपरे । केवलत्वमावरणक्षयात् , ज्ञानत्वं जातिविशेषः, दर्शनत्वं चं विषयताविशेषः दोषक्षयजन्यतावच्छेदक इति तु वयम् । अभेदपक्षे आगमविरोधपरिहारः
६१३९. ननु भवदुक्तपक्षे 'केवली णं' इत्यादिसूत्रे 'जं समयं' इत्यादौ यत्समकमि5 त्याद्यर्थो न सर्वस्वरससिद्धः, तादृशप्रयोगान्तरे तथाविवरणाभावात् , तथा 'नाणदंसणट्टयाए दुवे अहं' [ भग० १८.१०] इत्याद्यागमविरोधोऽपि, यद्धर्मविशिष्टविषयावच्छेदेन भेदनयापणं तद्धर्मविशिष्टापेक्षयैव द्वित्वादेः साकासन्त्वात् , अन्यथाऽतिप्रसङ्गात् इत्याशङ्कय युक्तिसिद्धः सूत्रार्थो ग्राह्यः, तेषां स्वसमयपरसमयादिविषयभेदेन विचित्रत्वात् इत्यभिप्रायवानाह
"परवत्तव्वयपक्खा अविसुद्धा तेसु तेसु अत्थेसु ।
अत्थगइओ अ तेसिं विअंजणं जाणओ कुणइ" ॥ [ सन्मति० २०१८] ६१४०. परेषां वैशेषिकादीनां यानि वक्तव्यानि तेषां पक्षा अविशुद्धा तेषु तेष्वर्थेषु सूत्रे तनयपरिकर्मणादिहेतोर्निबद्धाः । अर्थगत्यैव सामर्थ्य नैव तेषामर्थानां व्यक्तिं सर्वप्रवादमूलद्वादशाङ्गाविरोधेन ज्ञको ज्ञाता करोति । तथा च 'जं समयं' इत्यादेर्यथाश्रुतार्थे 15 केवली श्रुतावधिमनःपर्यायकेवल्यन्यतरो ग्राह्यः, परमावधिकाधोवधिकच्छमस्थातिरिक्तविषये स्नातकादिविषये वा तादृशसूत्रप्रवृत्तौ तत्र परतीर्थिकवक्तव्यताप्रतिबद्धत्वं वाच्यम् , एवमन्यत्रापीति दिक् । केवलज्ञानकेवलदर्शनरूपनिर्देशभेदेप्यैक्यम् -
६१४१. 'केवलनाणे केवलदंसणे' इत्यादिभेदेन सूत्रनिर्देशस्यैकार्थिकपरतैवेत्यभिप्रायेण 20 उपक्रमते
"जेण मणोविसयगयाण दंसणं णत्थि दव्वजादाणं ।
तो मणपजवनाणं नियमा नाणं तु णिटिं" ॥ [ सन्मति० २।१९] ६१४२. यतो मनःपर्यायज्ञानविषयगतानां तद्विषयसमूहानुप्रविष्टानां परमनोद्रव्यविशेपाणां बाह्यचिन्त्यमानार्थगमकतौपयिकविशेषरूपस्यैव सद्भावात् दर्शनं सामान्यरूपं नास्ति, 25 तस्मान्मनःपर्यायज्ञानं ज्ञानमेवाऽऽगमे निर्दिष्टम् , ग्राह्यसामान्याभावे मुख्यतया तद्हणोन्मु
खदर्शनाभावात् । केवलं तु सामान्यविशेषोभयोपयोगरूपत्वात् उभयरूपैकमेवेति भावः। निर्देशभेदेनैव कथञ्चित्तयोरनैक्यं नान्यथा
६१४३. सूत्रे उभयरूपत्वेन परिपठितत्वादप्युभयरूपं केवलं, न तु क्रमयोगादित्याह (गाद्विषयमेदाद्वेत्यभिप्रायवानाह)
१ जातिद्वयशक्तिद्वयरूपमि मु अब। २ पृ० ३४ पं० १९ । ३ °वात् न तथा त । ४ भेदे नयार्पणं त।५ अधः गुणीभूतः अवधिः यस्य स इति व्युत्पत्त्या अधोवधिकपदेन श्रुतकेवलिमनःपर्यायकेवलिनौ ग्राह्यौ यतः श्रुतस्य मनःपर्यायस्य वा पूर्णतायां सत्यां अवधेस्सत्वेऽपि तस्य गुणीभूतत्वेन श्रुतकेवलेन मनःपर्यायकेवलेन वा व्यपदेशस्य समुचितखात्, प्राधान्येन हि व्यपदेशा भवन्ति इति न्यायात्-सं०। ६ सौत्रनिर्दे अब । सूत्रनिर्देशस्य व्यपदेशविशेषायैकार्थिक त । ७ सामान्य रूपं अब। ८ गाद्विदित्याहषयमेदाढेत्यभिप्रायवानाह त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org