________________
७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । . ४३ "चक्खुअचक्खुअवधिकेवलाण समयम्मि दंसणविअप्पा ।
परिपठिआ' केवलनाणदसणा तेण' विय अण्णा ॥" [ सन्मति० २।२०] ६१४४. स्पष्टा । चक्षुरादिज्ञानवदेव केवलं ज्ञानमध्ये पाठात् ज्ञानमपि, दर्शनमध्ये पाठाच्च दर्शनमपीति परिभाषामात्रमेतदिति ग्रन्थकृतस्तात्पर्यम् । मत्युपयोगवत्केवलोपयोगस्य द्विरूपत्वमित्येकदेशिन:
६१४५. मतिज्ञानादेः क्रम इव केवलस्याक्रमेऽपि सामान्यविशेषाजहदैत्येकोपयोगरूपतया ज्ञानदर्शनत्वमित्येकदेशिमतमुपन्यस्यति
"दंसणमुग्गहमेत्तं घडोत्ति निबन्नणा हवइ नाणं । __ जह इत्थ केवलाण वि विसेसणं इत्तियं चेव" ॥ [ सन्मति० २।२१] $१४६ अवग्रहमानं मतिरूपे बोधे दर्शनम् , इदं तदित्यव्यपदेश्यम् , घट इति ॥ निश्चयेन वर्णना तदाकाराभिलॉप इति यावत् । कारणे कार्योपचाराच्च घटाकाराभिलापजनकं घटे मतिज्ञानमित्यर्थः । यथाऽत्रैवं तथा केवलयोरप्येतावन्मात्रेण विशेषः । एकमेव केवलं सामान्यांशे दर्शनं विशेषांशे च ज्ञानमित्यर्थः । एकदेशिनैव ज्ञानदर्शनयोः क्रमकृतभेदनिरास:६१४७. एकदेश्येव क्रमिकभेदपक्षं दूषयति
"दंसणपुवं नाणं, नाणनिमित्तं तु दंसणं णस्थि ।
तेण सुविणिच्छयामो दंसणनाणाण अण्णत्तं ॥" [ सन्मति २।२२ ] ६१४८. दर्शनपूर्व ज्ञानमिति छद्मस्थोपयोगदशायां प्रसिद्धम् । सामान्यमुपलभ्य हि पश्चात् सर्वो विशेषमुपलभत इति, ज्ञाननिमित्तं तु दर्शनं नास्ति कुत्रापि, तथाऽप्रसिद्धेः। तेन सुविनिश्चिनुमः 'दसणनाणा' इति दर्शनज्ञाने नाऽन्यत्वं न क्रमापादितभेदं केवलिनि भजत इति शेषः । क्रमाभ्युपगमे हि केवलिनि नियमाज्ज्ञानोत्तरं दर्शनं वाच्यं, सर्वासां लब्धीनां साकारोपयोगप्राप्यत्वेन पूर्व ज्ञानोत्पत्त्युपगमौचित्यात् । तथा च ज्ञानहेतुकमेव केवलिनि दर्शनमभ्युपगन्तव्यं, तच्चात्यन्तादर्शनव्याहतमिति भावः। यत्तु क्षयोपशमनिबन्धनक्रमस्य केवलिन्यभावेऽपि पूर्व क्रमदर्शनात्तज्जातीयतया ज्ञानदर्शनयोरन्यत्वमिति टीकाकव्याख्यानं, तत्स्वभावभेदतात्पर्येण सम्भवदपि दर्शने ज्ञाननिमित्तत्वनिषेधानति- 2 प्रयोजनतया कथं शोभत इति विचारणीयम् ।
६१४९. ननु यथा परेषां कल्पितः क्रमो वर्णनिष्ठो बुद्धिविशेषजनकतावच्छेदकोऽस्माकं च भिन्नाभिन्नपर्यायविशेषरूपः, तथा केवलिज्ञानदर्शननिष्ठस्तादृशः क्रम एवावरणक्षयजन्यतावच्छेदकः स्यादिति नोक्तानुपपत्तिरिति चेत् ; न, वर्णक्रमस्य क्रमवत्प्रयत्नप्रयोज्यस्य सुवचत्वेऽप्यक्रमिकावरणक्षयप्रयोज्यस्य केवल्युपयोगक्रमस्य दुर्वचत्वादनन्यगत्याऽक्रमि- 30
१ पढिया-सन्मति०।२ तेण ते अण्णा-सन्मति०। ३ °दृत्त्यैको मु। ४ °लाप इत्यर्थः का त। ५ अत्र 'यथाऽत्रैकम् तथा' इति साधु भाति-सं०। ६ तात्पर्यकमपि दर्श० त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org