________________
४४
ज्ञानबिन्दुप्रकरणम् । . कादप्यावरणद्वयक्षयात् क्रमवदुपयोगोत्पत्त्यभ्युपगमे च तन्नाशकारणाभावादविकलकारणातादृशोपयोगान्तरधाराया अविच्छेदाच "जुगवं दो णत्थि उवओग।" [आव० ९७९] इति वचनानुपपत्तिः । न च 'ज्ञानस्य दर्शनमेवार्थान्तरपरिणामलक्षणो ध्वंस इत्युपयोगायोगपद्यम्' साम्प्रतम्, साधनन्तपोयविशेषरूपध्वंसस्यैवावस्थितिविरोधित्वादान्तरपरि: णामलक्षणध्वंसस्यातथात्वात् , अन्यथा तत्तत्संयोगविभागादिमात्रेणानुभूयमानघटावस्थित्युच्छेदापत्तेः । न च - 'जुगवं दो णत्थि उवओगा' इत्यस्योपयोगयोर्युगपदुत्पत्तिनिषेध एव तात्पर्यम्, न तु युगपदवस्थानेऽपीत्युपयोगद्वयधाराणां नाशकारणाभावेन सहावस्थानेऽपि न दोष इति - साम्प्रतम् , अक्रमवादिनाप्येवं क्रमावच्छिन्नोपयोगद्वययोगपद्यनिषेधपरत्वस्य वक्तुं शक्यत्वात् , सूत्रासंकोचस्वारस्यादरे यदेव ज्ञानं तदेव " दर्शनमित्यस्मदुक्तस्यैव युक्तत्वादिति दिक् । एकदेशीयमतस्य निरासः
१५०. मतिज्ञानमेवावग्रहात्मना दर्शनम् , अपायात्मना च ज्ञानमिति यदुक्तं दृष्टान्तावष्टम्भार्थमेकदेशिना तहषयन्नाह -
"जइ उग्गहमित्तं दंसणं ति भण्णसि विसेसिया नाणं ।
मइनाणमेव दंसणमेवं सइ होइ निप्पण्णं ॥" [ सन्मति० २।२३] ६१५१. यदि मतिरेवावग्रहरूपा दर्शनम् , विशेषिता ज्ञानमिति मन्यसे तदा मतिज्ञानमेव दर्शनमित्येवं सति प्राप्तम् । न चैतद्युक्तम् , “स द्विविधोऽष्टचतुर्भेदः" [ तत्त्वार्थ २।९] इति सूत्रविरोधात् , मतिज्ञानस्याष्टाविंशतिभेदोक्तिविरोधाच्च ।
"एवं सेसिन्दियदंसणम्मिणियमेण होइ ण य जुत्तं ।।
अह तत्थ नाणमित्तं घेप्पइ चक्खुम्मि वि तहेव ।।" [ सन्मति० २।२४ ] ६१५२. एवं शेषेन्द्रियदर्शनेष्वप्यवग्रह एव दर्शनमित्यभ्युपगमेन मतिज्ञानमेव तदिति स्यात्, तच्च न युक्तम् , पूर्वोक्तदोषानतिवृत्तेः । अथ तेषु श्रोत्रादिष्विन्द्रियेषु दर्शनमपि भवज्ज्ञानमेव गृह्यते, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात् , तब्यवच्छेदश्च तथाव्यवहाराभावात् , श्रोत्रज्ञानं घ्राणज्ञानमित्यादिव्यपदेश एव हि तत्रोपलभ्यते, न तु श्रोत्रदर्शनं 2 घ्राणदर्शनमित्यादिव्यपदेशः क्वचिदागमे प्रसिद्धः, तर्हि चक्षुष्यपि तथैव गृह्यता
चक्षुर्ज्ञानमिति न तु चक्षुर्दर्शनमिति । अथ तत्र दर्शनम् , इतरत्रापि तथैव गृह्यतां युक्तेस्तुल्यत्वात् । दर्शनपदस्य परिभाषणम् - ६१५३. कथं तर्हि शास्त्रे चक्षुर्दर्शनादिप्रवाद इत्यत आह
"नाणमपुढे [ जो ] अविसए अ अत्थम्मि दंसणं होइ ।
मुत्तूण लिङ्गओ जं अणागयाईयविसएसु ॥" [ सन्मति० २।२५] ६१५४. अस्पृष्टेऽर्थे चक्षुषा य उदेति प्रत्ययः स ज्ञानमेव सच्चक्षुर्दर्शनमित्युच्यते, १°ति दृष्टन्तावष्टम्भाय यदुक्कमेकदेविना तदषयमाह-त०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org