________________
७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । इन्द्रियाणामविषये च परमाण्वादावर्थे मनसा य उदेति प्रत्ययः स ज्ञानमेव सदचक्षुर्दर्शनमित्युच्यते । अनुमित्यादिरूपे मनोजन्यज्ञानेऽतिप्रसङ्गमाशङ्कयाह - अनागतातीतविषयेषु यल्लिङ्गतो ज्ञानमुदेति 'अयं काल आसन्नभविष्यदृष्टिकस्तथाविधमेघोन्नतिमत्त्वात् , अयं प्रदेश आसन्नवृष्टमेघः पूरविशेषमत्त्वात्' इत्यादिरूपं तन्मुक्त्वा । इदमुपलक्षणं भावनाजन्यज्ञानातिरिक्तपरोक्षज्ञानमात्रस्य, तस्याऽस्पृष्टाविषयार्थस्याऽपि दर्शनत्वेनाव्यवहारात् । । मनःपर्याये दर्शनत्वस्यातिप्रसङ्गाभावः
६१५५. यद्यस्पृष्टाविषयार्थज्ञानं दर्शनमभिमतं तर्हि मनःपर्यायज्ञानेऽतिप्रसङ्ग इत्याशङ्कय समाधत्ते
"मणपज्जवनाणं दंसणं ति तेणेह होइ ण य जुत्तम् ।।
भन्नइ नाणं णोइन्दियम्मि ण घडादओ जम्हा ॥" [ सन्मति० २।२६] . १५६. एतेन लक्षणेन मनःपर्यायज्ञानमपि दर्शनं प्राप्तम् , परकीयमनोगतानां घटादीनामालम्ब्यानां तत्राऽसत्वेनाऽस्पृष्टेऽविषये च घटादावर्थे तस्य भावात् । न चैतद्युक्तम् , आगमे तस्य दर्शनत्वेनाऽपाठात् । भण्यतेज़ोत्तरम् -नोइन्द्रिये मनोवर्गणाख्ये मनोविशेषे प्रवर्तमानं मनःपर्यायबोधरूपं ज्ञानमेव, न दर्शनम् , यस्मादस्पृष्टा घटादयो नाऽस्य विषय इति शेषः । नित्यं तेषां लिङ्गानुमेयत्वात् । तथा चाऽऽगमः- "जाणइ बज्झेऽणु- 15 माणाओ" [ विशेषा० गा० ८१४ ] त्ति, मनोवर्गणास्तु परात्मगता अपि स्वाश्रयात्मस्पृष्टजातीया एवेति न तदंशेऽपि दर्शनत्वप्रसङ्गः । परकीयमनोगतार्थाकारविकल्प एवाऽस्य ग्राह्यः, तस्य चोभयरूपत्वेऽपि छाअस्थिकोपयोगस्याऽपरिपूर्णार्थग्राहित्वान्न मनःपर्यायज्ञाने दर्शनसम्भव इत्यप्याहुः । अस्पृष्टाविषयकज्ञानाद्दर्शनस्यापृथक्त्वम् - ६१५७. किञ्च
"मइसुअनाणणिमित्तो छउमत्थे होइ अस्थउवलम्भो ।
एगयरम्मि वि तेसिं ण दंसणं दसणं कत्तो ॥" [ सन्मति० २।२७] ६१५८. मतिश्रुतज्ञाननिमित्तः छद्मस्थानामर्थोपलम्भ उक्त आगमे । तयोरेकतरसिबपि न दर्शनं सम्भवति । न चाऽवग्रहो दर्शनम् , तस्य ज्ञानात्मकत्वात् । ततः कुतो दर्शनम् ? नास्तीत्यर्थः। श्रुतज्ञानस्य दर्शनत्वाभावः६१५९. ननु श्रुतमस्पृष्टेऽर्थे किमिति दर्शनं न भवेत् ? तबाह -
"जं पच्चक्खग्गहणं ण इन्ति सुअनाणसम्मिया अत्था ।
तम्हा दंसणसद्दो ण होइ सयले वि सुअनाणे ॥" [ सन्मति० २।२८] 30 ६१६०. यस्माच्छुतज्ञानप्रमिता अर्थाः प्रत्यक्षग्रहणं न यान्ति, अक्षजस्यैव व्यवहारतः प्रत्यक्षत्वात् , तस्मात् सकलेऽपि श्रुतज्ञाने दर्शनशब्दो न भवति । तथा च व्यञ्जनावग्र१°भिधीयते तदा मनः त। २ माणेणं-विशेषा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org