________________
ज्ञानबिन्दुप्रकरणम् । हाविषयार्थप्रत्यक्षत्वमेव दर्शनत्वमिति पर्यवसन्नम् । प्रत्यक्षपदादेव श्रुतज्ञानवदनुमित्यादेयावृत्ती परोक्षभिन्नत्वे सतीति विशेषणं न देयम् , 'मुत्तूण लिङ्गओ जं' इत्युक्तस्याप्यत्रैवे तात्पर्य द्रष्टव्यम् । इत्थं चाऽचक्षुर्दर्शनमित्यत्र नञः पर्युदासार्थकत्वादचक्षुर्दर्शनपदेन मानसदर्शनमेव ग्राह्यम् , अप्राप्यकारित्वेन मनस एव चक्षुःसदृशत्वान्न घ्राणदर्शनादीति 5 सर्वमुपपद्यते । अवधिज्ञानमेवावधिदर्शनम् -
६१६१. तथा च 'अवधिदर्शनमपि कथं सङ्गच्छते ?, तस्य व्यञ्जनावग्रहाविषयार्थग्राहित्वेऽपि व्यवहारतः प्रत्यक्षत्वाभावात्' इति शङ्कायाः-प्रत्यक्षपदस्य व्यवहारनिश्चयसाधारणप्रत्यक्षार्थत्वात् , अवधिज्ञानस्य च नैश्चयिकप्रत्यक्षत्वाव्याहतेः- परिहारमभिप्रयन्नाह
"जं अप्पुट्टा भावा ओहिण्णाणस्स होन्ति पच्चक्खा ।
तम्हा ओहिण्णाणे दंसणसद्दो वि उवउत्तो ॥" [ सन्मति० २।२९] ६१६२. स्पष्टा । उपयुक्तः लब्धनिमित्तावकाशः। एकस्यैव केवलोपयोगस्य द्वयात्मकत्वम् -
६१६३. केवलज्ञानेऽपीदं लक्षणमव्याहतमित्याह - 15 . “जं अप्पुढे भावे जाणइ पासइ य केवली नियमा ।
तम्हा तं नाणं दसणं च अविसेसओ सिद्धं ॥" [ सन्मति० २।३०] ६१६४. यतोऽस्पृष्टान् भावानियमेनाऽवश्यतया केवली चक्षुष्मानिव पुरःस्थितं जानाति पश्यति चोभयप्राधान्येन, तस्मात्तत्केवलज्ञानं दर्शनं चाविशेषत उभयाभिधाननिमित्तस्याविशेषात् सिद्धम् । मनःपर्यायज्ञानस तु व्यञ्जनावग्रहाविषयार्थकप्रत्यक्षत्वेऽपि बाह्यविषये 20 व्यभिचारेण खग्राह्यतावच्छेदकावच्छेदेन प्रत्यक्षत्वाभावान्न दर्शनत्वमिति निष्कर्षः।
६१६५. अत्र यट्टीकाकृता 'प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यपनीतावरणे युगपदुभयखभावो बोधः, छमस्थाऽवस्थायां त्वपगतावरणत्वेन दर्शनोपयोगसमये ज्ञानोपयोगाभावादप्राप्यकारिनयनमनःप्रभवाऽर्थावग्रहादि, मतिज्ञानोपयोगप्राक्काले चक्षुरच
क्षुर्दर्शने, अवधिज्ञानोपयोगप्राकाले चावधिदर्शनमाविर्भवति' इति व्याख्यातं तदर्धजरती23 यन्यायमनुहरति, प्राचीनप्रणयमात्रानुरोधे श्रोत्रादिज्ञानात् प्रागपि दर्शनाऽभ्युपगमस्यावर्जनीयत्वात् , व्यञ्जनावग्रहार्थावग्रहान्तराले दर्शनानुपलम्भात् , तदनिर्देशाच्च, असङ्ख्येयसामयिकव्यञ्जनावग्रहान्त्यक्षणे "ताहे हुन्ति करे" [नन्दी० सू० ३५] इत्यागमेनार्थावग्रहोत्पत्तरेव भणनात् , व्यञ्जनावग्रहप्राकाले दर्शनपरिकल्पनस्य चात्यन्ताऽनुचितत्वात् । तथा सति तस्येन्द्रियार्थसन्निकर्षादपि निकृष्टत्वेनानुपयोगत्वप्रसङ्गाच, प्राप्यकारीन्द्रियजज्ञा"नस्थले दर्शनानुपगमे चान्यत्रापि भिन्नतत्कल्पने न किञ्चित्प्रमाणम् , 'नाणमपुढे' इत्यादिना ज्ञानादभेदेनैव दर्शनस्वभावप्रतिपादनात् 'चक्षुर्वद्विषयाख्यातिः' इत्यादिस्तुतिपॅन्थैकवाक्यतयाऽपि तथैव स्वारस्याच्च । छद्मस्थज्ञानोपयोगे दर्शनोपयोगत्वेन हेतुत्वे तु चक्षुष्येव __ १ पृ० ४४ पं० ३१। २ °व पर्यवसानं इत्थं त। ३ °न्ति कारे अब। ४ °योगप्रस अब मु । ५°न्द्रियज्ञान त। ६ पृ. ४४ पं० ३० । ७ पृ. ३९ पं० १५। ८ अन्थेनापि तथैव त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org