________________
७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा ।
४७
दर्शनं नान्यत्रेति कथं श्रद्धेयम् ? । तस्माच्छ्रीसिद्धसेनोपज्ञनव्यमते न कुत्राऽपि ज्ञानादर्शनस्य कालभेदः । किन्तु स्वग्राह्यतावच्छेदकावच्छेदेन व्यञ्जनावग्रहाऽविषयीकृतार्थप्रत्यक्षत्वमेव दर्शनमिति फलितम् ।
१६६. यदि च चाक्षुषादावपि ज्ञानसामग्रीसामर्थ्यग्राह्यवर्तमानकालाद्यंशे मितिमात्राद्यंशे च न दर्शनत्वव्यवहारस्तदाऽविषयताविशेष एव दर्शनत्वम् । स च क्वचिदंशे योग्यता विशेष जन्यताऽवच्छेदकः क्वचिच्च भावनाविशेषजन्यताऽवच्छेदकः, केवले च सर्वांशे आवरणक्षयजन्यताऽवच्छेदक इति प्रतिपत्तव्यम् । न च 'अर्थेनैव धियां विशेष इति न्यायादर्थाविशेषे ज्ञाने विषयताविशेषाऽसिद्धि:' इति शङ्कनीयम्, अर्थेऽपि ज्ञानानुरूपस्वभावपरिकल्पनात्, अर्थाऽविशेषेऽपि परैः समूहालम्बनाद्विशिष्टज्ञानस्य व्यावृत्तये प्रकारिताविशेषस्याऽभ्युपगमाच्च । न हि तस्य तत्र भासमानवैशिष्ट्यप्रतियोगिज्ञानत्वमेव निरूपक विशिष्टज्ञानत्व वक्तुं शक्यम्, दण्डपुरुषसंयोगा इति समूहालम्बनेऽतिप्रसङ्गात् । न च भासमानं यद्वैशिट्य प्रतियोगित्वं तद्वत् ज्ञानत्वमेव तथा, दण्डपुरुषसंयोगप्रतियोगित्वानुयोगित्वानीति ज्ञाने दण्डविशिष्टज्ञानत्वापत्तेः । न च स्वरूपतो भासमानमित्याक्तावपि निस्तारः, प्रतियोगित्वादेरतिरिक्तत्वे प्रकारित्वादेर्ज्ञाननिष्ठस्य कल्पनाया एव लघुत्वात् । अनतिरेके तु दण्डदण्डत्वादिनिर्विकल्पकेऽपि दण्डादिविशिष्टज्ञानत्वापत्तेः ।
10
९१६७. एतेन स्वरूपतो भासमानेन वैशिष्ट्येन गर्भितलक्षणमप्यपास्तम्, संयुक्तसमवायादेः सम्बन्धत्वे स्वरूपत इत्यस्य दुर्वचत्वाच्च । तस्मात् पराभ्युपगतप्रकारिताविशेषवदाकारविशेषः स्याद्वादमुद्रयार्थानुरुद्धस्तदननुरुद्धो वा ज्ञाने दर्शनशब्दव्यपदेशहेतुरनाविलस्तत्समय एवाऽर्थज्ञानयोरविनिगमेनाऽऽकाराकारिभावस्व भावाविर्भावादित्येष पुनरस्माकं मनीषोन्मेषः ।
"
समयान्तरोत्पादोक्तिः परतीर्थिकाभिप्राया
६१६८, तस्माद्व्यात्मक एक एव केवलावबोध इति फलितं स्वमतमुपदर्शयति - "साई अपज्जवसियं ति दो वि ते ससमयं हवइ एवम् |
परतित्थियवत्तवं च एगसमयं तरुप्पाओ ॥" [ सम्मति० २।३१ ]
९१६९. साद्यपर्यवसितं केवलमिति हेतोर्द्वे अपि ज्ञानदर्शने ते उभयशब्दवाच्यं तदिति यावत् । अयं च स्वसमयः स्वसिद्धान्तः । यस्त्वेकसमयान्तरोत्पादस्तयोर्भण्यते तत्परतीर्थिकशास्त्रम्, नार्हद्वचनम्, नयाऽभिप्रायेण प्रवृत्तत्वादिति भावः ।
रुचिरूपं दर्शनमपि सम्यग्ज्ञानमेव -
६१७०. एवम्भूतवस्तुतत्त्वश्रद्धानरूपं सम्यग्दर्शनमपि सम्यग्ज्ञानविशेष एव । सम्यग्दर्शनत्वस्याऽपि सम्यग्ज्ञानत्वव्याप्यजातिविशेषरूपत्वात्, विषयताविशेषरूपत्वाद्वेत्याह
१ मिति युक्तं । यदि अ ब । २ न हि भास अ ब । ३ योगिनो ज्ञा° त । ४ °मेव विशिष्ट्य ज्ञान अब । ५ त्वं तन्निरूपकात् ज्ञानत्वमेव त । ६ ° ज्ञानापत्तेः अ । ७ कल्पके दण्डा' अ ब । ८ त्मक एव अब मु । ९ अयं स्वत ।
Jain Education International
For Private & Personal Use Only
15
20
25
30
www.jainelibrary.org