________________
ज्ञानबिन्दुप्रकरणम् । "एवं जिणपण्णत्ते सदहमाणस्स भावओ भावे ।
पुरिसस्साभिणिबोहे दंसणसद्दो हवइ जुत्तो ॥" [ सन्मति० २।३२] ६१७१. जिनप्रज्ञप्तभावविषयं समूहालम्बनं रुचिरूपं ज्ञानं मुख्यं सम्यग्दर्शनम् , तद्वासनोपनीतार्थविषयं घटादिज्ञानमपि भाक्तं तदिति तात्पर्यार्थः । । समग्दर्शनस्य विशिष्टज्ञानत्वम् - .६१७२. ननु सम्यग्ज्ञाने सम्यग्दर्शननियमवद्दर्शनेऽपि सम्यग्ज्ञाननियमः कथं न स्थात् ? इत्यत्राह
"सम्मन्नाणे णियमेण दंसणं, दंसणे उ भयणिज ।।
सम्मन्नाणं च इमं ति अत्थओ होइ उववणं ॥" [ सन्मति० २।३३] ॥ १७३. सम्यग्ज्ञाने नियमेन सम्यग्दर्शनम् , दर्शने पुनर्भजनीयं विकल्पनीयम् । सम्यग्ज्ञानं एकान्तरुचौ न सम्भवति, अनेकान्तरुचौ तु समस्तीति । अतः सम्यग्ज्ञानं चेदं सम्यग्दर्शनं चेत्यर्थतः सामर्थ्यादेकमेवोपपन्नं भवति । तथा च सम्यक्त्वमिव दर्शनं ज्ञानविशेषरूपमेवेति नियूंढम् ।।
[ग्रन्थकृत्प्रशस्तिः। us १७४. प्राचां वाचां विमुखविषयोन्मेषसूक्ष्मेक्षिकायां,
येऽरण्यानीभयमधिगता नव्यमार्गाऽनभिज्ञाः । तेषामेषा समयवणिजां सन्मतिग्रन्थगाथा,
विश्वासाय वनयविपणिप्राज्यवाणिज्यवीथी ॥१॥ भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी,
पूज्याः प्रायः करणफलयोः सीग्नि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेन
स्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥२॥ चित्सामान्यं पुरुषपदभाक्केवलाख्ये विशेष,
तद्रूपेण स्फुटमभिहितं साधनन्तं यदेव । सूक्ष्मैरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं,
तत्सूरीणामियमभिमता मुख्यगौणव्यवस्था ॥३॥ तमोऽपगमचिजनुःक्षणभिदानिदानोद्भवाः,
श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये,
प्रधानपदवी धियां क नु दवीयसी दृश्यते ॥ ४ ॥ १ स्यादित्याह त। २ र्शनं सम्यग्दर्शने अ व मु। ३ चेत्यर्थः सामर्थेनैवोपपन्नं मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org