SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा प्रसह्य सदसत्त्वयोन हि विरोधनिर्णायकं, विशेषणविशेष्ययोरपि नियामकं यत्र न । गुणाऽगुणविभेदतो मतिरपेक्षया स्यात्पदात् किमत्र भजनोर्जिते खसमये न सङ्गच्छते ॥५॥ प्रमाणनयसङ्गता स्वसमयेऽप्यनेकान्तधी नेयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता । कदाचन न बाधते सुगुरुसम्प्रदायक्रम, समञ्जसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥६॥ रहस्यं जानन्ते किमपि न नयानां हतधियो विरोधं भाषन्ते विविधबुधपक्षे बत खलाः । अमी चन्द्राऽऽदित्यप्रकृतिविकृतिव्यत्ययगिराः, निरातङ्काः कुत्राऽप्यहह न गुणान्वेषणपराः॥७॥ खादादस्य ज्ञानबिन्दोरमन्दान्मन्दारद्रोः कः फलावादगर्वः। द्राक्षासाक्षात्कारपीयूषधारादारादीनां को विलासश्च रम्यः॥८॥ गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयाः प्राज्ञाः परामैयरुः । तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशु स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥९॥ . ॥ इति उपाध्यायश्रीयशोविजयगणिना रचितं ज्ञानबिन्दुप्रकरणम् ॥ 20 १°मेदते म अब। २०गिरा गिरातङ्काः त। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy