________________
३३
७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । यूयमिति प्रयोगेऽगतेश्च एकाभिप्रायकत्वंपदग्रहणे च तत्तदभिप्रायकशब्दत्वेन तत्तच्छाब्दबोधहेतुत्वमेव युक्तम् । अत एव वाक्यादपि द्रव्यार्थादेशादखण्डः, पदादपि च पर्यायार्थादेशात् सखण्डः शाब्दबोध इति जैनी शास्त्रव्यवस्था । तस्मान्न शब्दस्य अपरोक्षज्ञानजनकत्वम् ।
६९९. एतेन- अपरोक्षपदार्थाभेदपरशब्दत्वेन अपरोक्षज्ञानजनकत्वम् , अत एव 'शुक्ति- 5 रियम्' इति वाक्यादाहत्य रजतभ्रमनिवृत्तिः, एवं च चैतन्यस्य वास्तवापरोक्षत्वात् अपरोक्षज्ञानजनकत्वं महावाक्यस्य- इत्यपि निरस्तम् , वास्तवापरोक्षस्वरूपविषयत्वस्य त्वन्नीत्या 'तत्त्वमस्या दिवाक्ये सम्भवेऽपि 'दशमस्त्वमसी' त्यादावसम्भवात् , निवृत्ताज्ञानविषयत्वस्य च शाब्दबोधात्पूर्वमभावात् , यदा कदाचिन्निवृत्ताज्ञानत्वग्रहणे 'पर्वतो वह्निमान्' इत्यादिवाक्यानामपि अपरोक्षस्वरूपविषयतया अपरोक्षज्ञानजनकत्वप्रसङ्गात् , “यतो वा इमानि 10 भूतानि जायन्ते" [तैत्तिरी० ३.१.१ ] "सत्यं ज्ञानमनन्तम्" [ तैत्तिरी० २.१.१ ] इत्यादिवाक्यानामपरोक्षस्वरूपविषयतया अपरोक्षज्ञानजनकत्वे महावाक्यवैयापाताच्च ।
६१००. किश्च, एवं घटोऽस्तीति शाब्दे चाक्षुषत्वमप्यापतेत् , अपरोक्षपदार्थाभेदपरशब्दादिव अपरोक्षपक्षसाध्यकानुमितिसामग्रीतोऽपरोक्षानुमितिरपि च प्रसज्येत । एवं च भिन्नविषयत्वाद्यप्रवेशेनैव अनुमितिसामग्र्या लाघवात् बलवत्त्वमितिविशेषदर्शनकालीन- 15 भ्रमसंशयोत्तरप्रत्यक्षमात्रोच्छेद इति बहुतरं दुर्घटम् ।।
६१०१. एतेन-प्रमात्रभेदविषयत्वेन अपरोक्षज्ञानजनकत्वम् - इत्यपि निरस्तम्, 'सर्वज्ञत्वादिविशिष्टोऽसि' इत्यादिवाक्यादपि तथाप्रसङ्गात् , ईश्वरो मदभिन्नश्चेतनत्वात् मद्वदिति अनुमानादपि तथाप्रसङ्गाचेति । महावाक्यजन्यमपरोक्षं शुद्धब्रह्मविषयमेव केवलज्ञानमिति वेदान्तिनां महानेव मिथ्यात्वाभिनिवेश इति विभावनीयं सूरिभिः। 20
[७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । ] ६१०२. इदमिदानीं निरूप्यते-केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनसमानकालीनं न वा, केवलज्ञानक्षणत्वं स्वसमानाधिकरणदर्शनक्षणाव्यवहितोत्तरत्वव्याप्यं नै वा ? एवमाद्याः क्रमोपयोगवादिनां जिनभद्रगणिक्षमाश्रमणपूज्यपादानाम् , युगपदुपयोगवादिनां च मल्लवादिप्रभृतीनाम् , यदेव केवलज्ञानं तदेव केवलदर्शनमिति वादिनां च महावादि- 25 श्रीसिद्धसेनदिवाकराणाम् , साधारण्यो विप्रतिपत्तयः । यत्तु युगपदुपयोगवादित्वं सिद्धसेनाचार्याणां नन्दिवृत्तावुक्तं तदभ्युपगमवादाभिप्रायेण, न तु स्वतत्रसिद्धान्ताभिप्रायेण, क्रमाक्रमोपयोगद्वयपर्यनुयोगानन्तरमेव खपक्षस्य सम्मती उद्भावितत्वादिति द्रष्टव्यम् । छानस्थिकज्ञानदर्शनयोरेव क्रमवर्तित्वम् - ६१०३. एतच तत्त्वं सयुक्तिकं सम्मतिगाथाभिरेव प्रदर्शयामः ।
"मणपज्जवनाणंतो नाणस्स य दरिसणस्स य विसेसो।।
केवलनाणं पुण दंसणंति नाणंति य समाणं ॥" [ सन्मति० २।३ ] १°कलेन महात। २ क्षणव्य अब। ३ न वेत्याद्याः त।
ज्ञा०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org