________________
३२
ज्ञानबिन्दुप्रकरणम् ।
निषेधयोः वृत्तिविषयत्वतदुपरक्तचैतन्याविषयत्वाभ्यामुपपत्तेश्च । शब्दस्य त्वपरोक्षज्ञानजनकत्वे स्वभावभङ्गप्रसङ्ग एव स्पष्टं दूषणम् ।
§ ९६. न च 'प्रथमं परोक्षज्ञानं जनयतोऽपि शब्दस्य विचार सहकारेण पश्चादपरोक्षज्ञानजनकत्वमिति न दोष:' इति वाच्यम्, अर्धजरतीयन्यायापातात् । न खलु शब्दस्य परोक्षज्ञान• जननखाभाव्यं सहकारिसहस्रेणापि अन्यथाकर्तुं शक्यम्, आगन्तुकस्य स्वभावत्वानुपपत्तेः । न च संस्कारसहकारेण चक्षुषा प्रत्यभिज्ञानात्मकप्रत्यक्षजननवदुपपत्तिः, यदंशे संस्कारसापेक्षत्वं तदंशे स्मृतित्वापातो यदंशे च चक्षुः सापेक्षत्वं तदंशे प्रत्यक्षत्वापात इति भियैव प्रत्यभिज्ञानस्य प्रमाणान्तरत्वमिति जैनैः स्वीकारात् । स्वे स्वे विषये युगपज्ज्ञानं जनयतोचक्षुः संस्कारयोरार्थसमा जेनैकज्ञानजनकत्वमेव पर्यवस्यति, अन्यथा रजतसंस्कारसहकारेण " असन्निकृष्टेऽपि रजते चाक्षुषज्ञानापत्तेरन्यथाख्यात्यस्वीकारभङ्गप्रसङ्ग इति वदंस्तपखी तूभयात्मकैकज्ञानाननुव्यवसायादेव निराकर्तव्यः, अन्यथा रजतभ्रमेऽपि उभयात्मकतापत्तेः, पर्वतो वह्निमान् इत्यनुमितावपि उभयसमाजादंशे प्रत्यक्षानुमित्यात्मकतापत्तेश्च ।
15
१९७, अथ 'मनस इव शब्दस्य परोक्षापरोक्षज्ञानजननस्वभावाङ्गीकाराददोषः । मनस्त्वेन परोक्षज्ञानजनकता, इन्द्रियत्वेन चापरोक्षज्ञानजनकता इत्यस्ति मनस्यवच्छेदकभेद इति ' चेत् ; शब्दस्यापि विषयाजन्यज्ञानजनकत्वेन वा ज्ञानजनकत्वेन वा परोक्षज्ञानजनकता योग्यपदार्थनिरूपितत्वंपदार्थाभेदपरशब्दत्वेन चापरोक्षज्ञानजनकतेति कथं नावच्छेदक'भेदः ?, 'धार्मिकस्त्वमसि' इत्यादौ व्यभिचारवारणाय निरूपितान्तं विशेषणम्, इतरव्यावर्त्य तु स्पष्टमेव । एतच्च 'दशमस्त्वमसि' 'राजा त्वमसि' इत्यादिवाक्यात् 'दशमोऽहमस्मि ' 'राजाहमस्मि' इत्यादिसाक्षात्कारदर्शनात्कल्प्यते, 'नाहं दशमः' इत्यादिभ्रमनिवृत्तेः, अत इत्थमेव सम्भवात् । साक्षात्कारिभ्रमे साक्षात्कारिविरोधिज्ञानत्वेनैव विरोधित्वकल्पनात् । नच 'तत्र वाक्यात्पदार्थमात्रोपस्थितौ मानसः संसर्गबोधः" इति वाच्यम्, सर्वत्र वाक्ये तथा वक्तुं शक्यत्वेन शब्दप्रमाणमात्रोच्छेदप्रसङ्गात्' इति चेत्; मैवम्, 'दशमस्त्वमसि' इत्यादौ वाक्यात्परोक्षज्ञानानन्तरं मानसज्ञानान्तरस्यैव भ्रमनिवर्तकत्वकल्पनात्, 'धार्मिकस्त्वमसि' इत्यादौ विशेष्यांशस्य योग्यत्वादेव योग्यपदार्थनिरूपितेत्यत्र योग्यपदार्थताव25 च्छेदकविशिष्टेत्यस्यावश्यवाच्यत्वेन महावाक्यादपि तत्पदार्थतावच्छेदकस्य अयोग्यत्वेन अपरोक्षज्ञानासम्भवाच्च, अयोग्यांशत्यागेन योग्यांशोपादानाभिमुखलक्षणावत्त्वमेव योग्यपदार्थत्वमित्युक्तौ च ' धार्मिकस्त्वमसि' इत्यादावपि शुद्ध परोक्षविषयत्वे तद्व्यावर्तकविशेषणदानानुपपत्तिः । तथा च योग्यलक्ष्यपरत्वग्रहे उदाहरणस्थान दौर्लभ्यम् । अयं च विषयोऽस्माकं पर्यायविनिर्मोकेण शुद्धद्रव्यविषयतापर्यवसायस्य द्रव्यनयस्य इत्यलं ब्रह्मवादेन ।
इत्य
20
30
९९८. किञ्च, त्वंपदार्थाभेदपरशब्दत्वेन अपरोक्षज्ञानजनकत्वोक्तौ 'यूयं राजानः' · तोऽखिलसंबोध्यविशेष्यकराजत्वप्रकारकापरोक्षशाब्दापत्तिः, तत्र तादृशमानसाभ्युपगमे चान्यत्र कोsपराधः ? । एतेन एकवचनान्तत्वंपदार्थग्रहणेऽपि न निस्तार एकस्मिन्नेव
१ यदंशे चक्षुः अ ब । २ त्यागयोग्यां ५ °खिलविशे' त । ६ गमे वान्यत्र त ।
Jain Education International
मु अब ।
३ होदा त । ४ कस्य न द्रव्य° त ।
For Private & Personal Use Only
www.jainelibrary.org