________________
६. ब्रह्मज्ञानसमीक्षा।
कल्पकधीव्यवहारौ यत्र स तथा शुद्धसङ्ग्रहावसान इति यावत् । ततः परं विकल्पवचनाप्रवृत्तेः इत्येतस्या अर्थः। सविकल्पाविकल्पयोरनेकान्तस्य समर्थनम् -
६९२. “तत्त्वमसि' [ छान्दो० ६.८.७ ] इत्यादावपि आत्मनस्तत्तदन्यद्रव्यपर्यायोपरागासम्भवविचारशतप्रवृत्तावेव शुद्धद्रव्यविषयं निर्विकल्पकमिति शुद्धदृष्टौ घटज्ञानाद् । ब्रह्मज्ञानस्य को भेदः । एकत्र सदद्वैतमपरत्र च ज्ञानाद्वैतं विषय इत्येतावति भेदे त्वौत्तरकालिकं सविकल्पकमेव साक्षीति सविकल्पकाविकल्पकत्वयोरप्यनेकान्त एव श्रेयान् । तदुक्तम् - ___“सविअप्पणिविअप्पं इय पुरिसं जो भणेज अविअप्पं ।
सविअप्पमेव वा णिच्छएण ण स णिच्छिओ समए ॥" [ सन्मति० ११३५] इति । " ६९३. न च निर्विकल्पको द्रव्योपयोगोऽवग्रह एवेति तत्र विचारसहकृतमनोजन्यत्वानुपपत्तिः, विचारस्य ईहात्मकत्वेन ईहाजन्यस्य व्युपरताकाङ्क्षस्य तस्य नैश्चयिकापायरूपस्यैव अभ्युपगमात् , अपाये नामजात्यादियोजनानियमस्तु शुद्धद्रव्यादेशरूपश्रुतनिश्रितातिरिक्त एवेति विभावनीयं खसमयनिष्णातैः। श्रुत्यैव ब्रह्मबोधस्य शाब्दत्ववन्मानसत्वोक्तिः
६९४. ब्रह्माकारबोधस्य मानसत्वे "नावेदविन्मनुते तं बृहन्तं वेदेनैव तद्वेदितव्यं" "तं त्वौपनिषदं पुरुषं पृच्छामि" [ बृहदा० ३.९.२६ ] इत्यादिश्रुतिविरोध इति चेत्, शाब्दत्वेऽपि “यद्वाचानभ्युदितं", [केनो० १.४ ] "न चक्षुषा गृह्यते, नापि वाचा," [मुण्ड० ३. १.८] “यतो वाचो निवर्तन्ते" [ तैत्तिरी० २.४.१] इत्यादिश्रुतिविरोधस्तुल्य एव ।
६९५. अथ वाग्गम्यत्वनिषेधश्रुतीनां मुख्यवृत्त्यविषयत्वावगाहित्वेनोपपत्तिः जहद- 24 जहल्लक्षणयैव ब्रह्मणि महावाक्यगम्यत्वप्रतिपादनात् । मनसि तु मुख्यामुख्यभेदाभावात् "यन्मनसा न मनुते" [केनो० १.५] इत्यादिविरोध एव, “सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा मनसैवानुद्रष्टव्यः" इत्यादिश्रुतौ मानसीनत्वं तु मनस्युपाधावुपलभ्यमानत्वम्, न तु मनोजन्यसाक्षात्कारत्वम् । मनसैवेति तु कर्तरि तृतीया आत्मनोऽकर्तृत्वप्रतिपादनार्था मनसो दर्शनकर्तृतामाह, न करणताम् , औपनिषदसमाख्याविरोधात् । “कामः संकल्पो 25 विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहर्षी रित्येतत्सर्वं मन एव" [बृहदा० १.५.३] इति श्रुतौ मृद्घट इतिवदुपादानकारणत्वेन मनःसामानाधिकरण्यप्रतिपादनात्, तस्य निमित्तकारणत्वविरोधाचेति चेत् ; न, कामादीनां मनोधर्मत्वप्रतिपादिकायाः श्रुतेः मनःपरिणतात्मलक्षणभावमनोविषयताया एव न्याय्यत्वात् । “मनसा ह्येव पश्यति मनसा शृणोति" [बृहदा० १.५.३] इत्यादौ मनाकरणत्वस्यापि श्रुतेर्दीर्घकालिकसंज्ञानरूपदर्शनग्रहणेन 30 चक्षुरादिकरणसत्त्वेऽपि तत्रैवकारार्थान्वयोपपत्तेः, त्वन्मतेऽपि ब्रह्मणि मानसत्वविधि
१रताखिलाका त। २ देशश्रुत। ३ श्रुतनिश्चि(श्रि)ता मु। ४ °व्यं तत्त्वौ त अब । ५ निषेधश्रु० अब।-६ सर्ववेदा त। ७ °करणस्यापि मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org