________________
ज्ञानबिन्दुप्रकरणम् । "ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥" [ भगवद्गीता ५.१६ ] इत्यादि। एवम् - "ब्रह्मविद् ब्रह्मैव भवति" [मुण्ड० ३.२.९] "तरति शोकमात्मवित्" [ छान्दो० ७.१.३]
"तरत्यविद्यां वितता हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै ज्ञानात्मने नमः" ॥ इति ।
"अविद्यायाः परं पारं तारयसि" [प्रश्नो० ६.८ ] इत्यादिः। श्रुतार्थापत्तिश्च-ब्रह्मज्ञानाद् ब्रह्मभावः श्रूयमाणस्तब्यवधायकाज्ञाननिवृत्तिमन्तरेण नोपपद्यत इति ज्ञानादज्ञाननिवृत्तिं गमयति ।। 1. "अनृतेन हि प्रत्यूढाः" [छान्दो० ८.३.२ ] "नीहारेण प्रावृताः" [ऋक्सं० १०.८२.७]
"अन्यधुष्माकमन्तरम्"
“अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः" [ भगवद्गीता० ५.१५] इत्यादि श्रुतिस्मृतिशतेभ्योऽज्ञानमेवे च मोक्षव्यवधायकत्वेनावगतम् , एकस्यैव तत्त्वज्ञानेनाज्ञाननिवृत्त्यभ्युपगमाच नान्यत्र व्यभिचारदर्शनेन ज्ञानस्याज्ञाननिवर्तकत्वबाधो15 ऽपीति चेत् । न, एतस्यैकजीवमुक्तिवादस्य श्रद्धामात्रशरणत्वात् , अन्यथा जीवान्तरप्रतिभासस्य स्वामिकजीवान्तरप्रतिभासवत् विभ्रमत्वे जीवप्रतिभासमात्रस्यैव तथात्वं स्यादिति चार्वाकमतसाम्राज्यमेव वेदान्तिना प्राप्तं स्यात् ।
$ ८९. उक्तश्रुतयस्तु कर्मण एव व्यवधायकत्वम् , क्षीणकर्मात्मन एव च ब्रह्मभूयं प्रतिपादयितुमुत्सहन्त इति किं शशशृङ्गसहोदराज्ञानादिकल्पनया तदभिप्रायविडम्बनेन । " निर्विकल्पबोधे शुद्धद्रव्यनयादेशत्वोक्तिः
६९०. निर्विकल्पकब्रह्मबोधोऽपि शुद्धद्रव्यनयादेशतामेवावलम्बताम्, सर्वपर्यायनयविषयव्युत्क्रम एव तत्प्रवृत्ते, न तु सर्वथा जगदभावपक्षपातितामिति सम्यग्दृशां वचनोद्गारः । शाब्द एव स इत्यत्र तु नाग्रहः, यावत्पर्यायोपरागासम्भवविचारसहकृतेन मनसैव तगृहसम्भवात् । न केवलमात्मनि, किन्तु सर्वत्रैव द्रव्ये पर्यायोपरागानुपपत्तिप्रसूत5 विचारे मनसा निर्विकल्पक एव प्रत्ययोऽनुभूयते । उक्तं च सम्मतो
"पज्जवणयवुकंतं वत्थु दवट्ठियस्स वत्तव्वं ।
जाव दविओवओगो अपच्छिमवियप्पनिव्वयणो ॥" [ सन्मति० ११८ ] इति । ६९१. पर्यायनयेन व्युत्क्रान्तं गृहीत्वा विचारेण मुक्तं वस्तु द्रव्यार्थिकस्य वक्तव्यम् । यथा 'घटो द्रव्यम्' इत्यत्र घटत्वविशिष्टस्य परिच्छिन्नस्य द्रव्यत्वविशिष्टेनापरिच्छिन्नेन 0 सहाभेदान्वयासम्भव इति मृदेव द्रव्यमिति द्रव्यार्थिकप्रवृत्तिस्तत्रापि सूक्ष्मेक्षिकायामपरापरद्रव्यार्थिकप्रवृत्तिः यावद्व्योपयोगः । न विद्यते पश्चिमे उत्तरे विकल्पनिर्वचने सवि
१ अन्यदयुष्मा अबत। २ मेव मोक्ष मुअब। ३त्युपग अब। ४ च मान्य अब। ५°चारासह त। ६ °चारे हि म त । ७°कल्प एव त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org