________________
६. ब्रह्मज्ञानसमीक्षा। उपासक इव ध्यायल्लौकिकं विस्मरेद्यदि । विस्मरत्येव सा ध्यानाद्विस्मृतिर्न तु वेदनात् ॥"
[पञ्चदशी ध्यान० श्लो० ९२-९६ ] इत्यादि ध्यानदीपवचनं विप्लवेतेति किमतिविस्तरेण । तस्मात् ब्रह्मविषया ब्रह्माकारा वा वृत्तिरविवेचितसारैव । वृत्तेस्तत्कारणाज्ञानस्य च नाशासंभवकथनम् -
६८६. कथं चास्या निवृत्तिरिति वक्तव्यम् । स्वकारणाज्ञाननाशादिति चेत् , अज्ञाननाशक्षण इवावस्थितस्य विनश्यदवस्थाज्ञानजनितस्य वा दृश्यस्य चिरमप्यनुवृत्तौ मुक्तावनाश्वासः। उक्तप्रमाविशेषत्वेन निवर्तकता दृश्यत्वेन च निवर्त्यतेति दृश्यत्वेन रूपेण अविद्यया सह स्वनिवर्त्यत्वेऽपि न दोषः, निवर्त्यतानिवर्तकतयोः अवच्छेदकैक्य एव क्षणभङ्गापत्तेरिति । चेत् ; न, प्रमाया अप्रमा प्रत्येव निवर्तकत्वदर्शनेन दृश्यत्वस्य निवर्त्यतानवच्छेदकत्वात् । न च ज्ञानस्य अज्ञाननाशकतापि प्रमाणसिद्धा, अन्यथा स्वमायध्यासकारणीभूतस्याज्ञानस्य जागरादिप्रमाणज्ञानेन निवृत्तौ पुनः खमाध्यासानुपपत्तिः । तत्र अनेकज्ञानस्वीकारे तु आत्मन्यपि तथासम्भवेन मुक्तावनाश्वासः । मूलाज्ञानस्यैव विचित्रानेकशक्तिस्वीकाराद् एकशक्तिनाशेऽपि शक्त्यन्तरेण खमान्तरादीनां पुनरावृत्तिः सम्भवति, सर्वशक्तिमतो 15 मूलाज्ञानस्यैव निवृत्तौ तु कारणान्तरासम्भवात् , द्वितीयस्य च तादृशस्थानङ्गीकारात्, न प्रपञ्चस्य पुनरुत्पत्तिरिति तु स्ववासनामात्रम्, चरमज्ञानं वा मूलाज्ञाननाशकं क्षणविशेषो वेति अत्र विनिगमकाभावात् , अनन्तोत्तरोत्तरशक्तिकार्येषु अनन्तपूर्वपूर्वशक्तीनां प्रतिवन्धकत्वस्य, चरमशक्तिकार्ये चरमशक्तेः, तन्नाशे च चरमज्ञानस्य हेतुत्वकल्पने महागौरवात् , पूर्वशक्तिनाश इव चरमशक्तिनाशेऽपि पण्डमूलाज्ञानानुवृत्यापत्त्यनुद्धाराच्चेति, न 20 किश्चिदेतत् ।
६८७. एतेन-जागरादिभ्रमेण स्वमादिभ्रमतिरोधानमानं क्रियते, सर्पभ्रमेण रज्वां धाराभ्रमतिरोधानवत्, अज्ञाननिवृत्तिस्तु ब्रह्मात्मैक्यविज्ञानादेव इत्यपि निरस्तम् । एवं सति ज्ञानस्याज्ञाननिवर्तकतायां प्रमाणानुपलब्धेतन्निवृत्तिमूलमोक्षानाश्वासात् । श्रुतिभ्य एव जैनेष्टकर्मवाद-ब्रह्मभावसमर्थनम् - .
६८८. मा भूद् उदाहरणोपलम्भः, श्रुतिः श्रुतार्थापत्तिश्च एतदर्थे प्रमाणतामवगाहेते एव । तत्र श्रुतिस्तावत् “तमेव विदित्वाऽतिमृत्युमेति" [ श्वेता० ३.८ ] "मृत्युरविद्या" इति शास्त्रे प्रसिद्धम् । तथा
"तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः" [ श्वेता० १.१०] स्मृतिश्च-"दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥" [भगवद्गीता ७.१४ ]
.
30
१०चन विरुद्ध्येतेति-त। २ खनाध्यासादिका त। ३ शकं चरमक्षणो वेति त। ४ तन्नाशे चरत। ५ शेऽपि मूलाज्ञानानुवृत्तिप्रसङ्गाचेति त; शेऽपि मूला मु। ६ तन्निवर्त्तकज्ञानाचाश्वासातूत।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org