________________
२८
ज्ञानबिन्दुप्रकरणम् । "तं त्वौपनिषदं पुरुषं पृच्छामि" [ बृहदा० ३.९.२६] । “नावेदविन्मनुते तं बृहन्तं" "वेदेनैव यद्वेदितव्यम्" इत्याधुभयविधथुत्यनुसारेण इत्थं कल्पनात् ।
"फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् ।" [पंचदशी ७.९० ]
"ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ॥" [पंचदशी ७.९२ ] इति कारिकायामपि फलपदं चैतन्यमात्रपरमेव द्रष्टव्यम् , प्रमाणजन्यान्तःकरणवृत्यभिव्यक्तचैतन्यस्य शास्त्रे फलत्वेन व्यवह्रियमाणस्य ग्रहणे तव्याप्यताया अन्वयव्यतिरेकाभ्यां जडत्वापादकत्वे ब्रह्मण इव साक्षिभास्यानामपि जडत्वानापत्तेः, चैतन्यकर्मता तु चिह्निनत्वावच्छेदेन सर्वत्रैवेति सैव जडत्वप्रयोजिका । न च 'वृत्तिविषयत्वेऽपि चैतन्यविषयत्वं नियतं वृत्तेश्चिदाकारगर्भिण्या एवोत्पत्तेः, तदुक्तम् -
"वियद्वस्तुखभावानुरोधादेव न कारकात् । वियत्सम्पूर्णतोत्पत्तौ कुम्भस्यैवं दृशा धियाम् ॥ घट दुःखादिरूपत्वं धियो धर्मादिहेतुतः ।" [ बृहदा० सं० ५४३, ५४४ ]
"खतःसिद्धार्थसम्बोधव्याप्तिर्वस्त्वनुरोधतः ॥" [ बृहदा० सं० ५४२ ] इति । तथा च जडत्वं दुर्निवारम्' इति वाच्यम् , वृत्त्युपरक्तचैतन्यस्य स्वत एव चैतन्यरूपत्वेन 1 तव्याप्यत्वाभावात् फले फलान्तरानुत्पत्तेस्तद्भिन्नानां तु स्वतो भानरहितानां तव्याप्तेरवश्याश्रयणीयत्वात्' इत्यादि मधुसूदनोक्तमपि अपास्तम् , वृत्तिविषयताया अपि निर्धर्मके ब्रह्मण्यसम्भवात् , कल्पितविषयतायाः स्वीकारे च कल्पितप्रकारताया अपि स्वीकारापत्तेः, उभयोरपि ज्ञानभासकसाक्षिभास्यत्वेन चैतन्यानुपरञ्जकत्वाविशेषात् , ज्ञानस्य स्वविषयानिवर्तकत्वेन प्रकारानिवृत्तिप्रसङ्गभयस्य च विषयताद्यनिवृत्तिपक्ष इव धर्मधर्मिणोर्जा२० त्यन्तरात्मकभेदाभेदसम्बन्धाश्रयणेनैव सुपरिहरत्वात् , कृतान्तकोपस्त्वेकान्तवादिनामुपरि कदापि न निवर्तत इति तत्र का प्रतिकारः ।
६८५. यदि च दृग्विषयत्वं ब्रह्मणि न वास्तवम् , तदा सकद्दर्शनमात्रेण आत्मनि घटादाविव हगपगमेऽपि दृष्टत्वं कदापि नापैतीत्यायुक्तं न युज्यते । तथा च
"सकृत्प्रत्ययमात्रेण घटश्चेद्भासते सदा । खप्रकाशोऽयमात्मा किं घटवच्च न भासते ॥ खप्रकाशतया किं ते तद्बुद्धिस्तत्त्ववेदनम् । बुद्धिश्च क्षणनाश्येति चोद्यं तुल्यं घटादिषु ।। घटादौ निश्चिते बुद्धिर्नश्यत्येव यदा घटः । दृष्टो नेतुं तदा शक्य इति चेत्सममात्मनि । निश्चित्य सकृदात्मानं यदापेक्षा तदैव तम् । वक्तुं मन्तुं तथा ध्यातुं शक्नोत्येव हि तत्त्ववित् ।।
१ कारणात् मु। २ स्यैवं दशाधि मु अब । स्येव दृशा बृहदा० सं०। ३°दुःखादिहेतुखं धि त । ४ धियां धबृहदा०सं०। ५ द्रष्टवं ब। द्रष्टुवं मु। ६ °तीत्युक्तं न मु अब। ७°ते तदा।
मु अब । ८ किं तेन बुद्धि त। ९ इष्टो नेतुं पञ्चदशी। Jain Education International For Private & Personal Use Only
www.jainelibrary.org